________________ 182 दिवाकरकृता किरणावलीकलिता षष्टी द्वात्रिंशिका / मयेदमिति। “अदोषलं मयेदमन्यूहितमिति शास्तुरेतन्मतं नेत्यपोह्यते, तथापि तच्छिष्यतयैव रम्यते एषा कृतज्ञताऽल्पसत्त्वता वा” इत्यन्वयः। अदोषलं दोष लातीति दोषलं न दोषलमदोषलं परोपदर्शितदोषविनिर्मुक्तम् , मया बुद्धाद्यनुयायिना धर्मकीर्त्यादिना, इदं अयमेव भेदो भेदहेतुर्वा यदुत विरुद्धधर्माध्यासः स चेन्न भेदको विश्वमेकं स्यादित्यादिकम् , अभ्यूहितं अभितस्तर्कितं, इति ममभिनवतर्कविषयत्वत:, शास्तुः मम शासनकर्बुद्ध देः, एतन्मतं न तथा चैतद्दोषगुणाभ्यामनुपपत्त्युपपत्तिभ्यां पराजयो जयो वा ममैव न तु शास्तुः, इतिए वं, अपोह्यते स्वशासनकर्त्तर्मत परोक्तदोषभाजनं मा भूदित्याशयेन निराक्रियते, तथापि शासनकर्त्तमतप्रतिक्षेपेऽपि, तरिछप्यतयैव वुद्धाद्यन्तेवासितयेव, रम्यते धर्मकीर्त्यादिभिर्लोके सुखमनुभूयते, तदेतद्वौद्धादीनां न युक्तमित्यावेदनायाह-एषेति इदं न शास्तुरेतन्मतं किन्तु मयाऽभ्यूहितमिति विचारणेत्यर्थः, कृतज्ञता अस्मादन्तेवासिनः प्रतिबुद्धेव यदुपकृतं तज्ज्ञोऽहमस्मि तन्न विस्मरामीत्यतः परापादिततन्मतदूषणोद्धारं करोमीत्येवंलक्षणा कृतज्ञता, सा तदोपपन्ना भवेद् यदि यथोक्तमेव बुद्धमतं परापादितदोषविनिर्मुक्तं . क्रियेत, न चैवं, स्वकीयं ततोऽन्यदेव मतं दोषविनिमुक्तममिधीयत इति वुद्धमतं तु परदोषदूषितमेवेति तन्मततिरस्कारो न कृतज्ञता भवतीति, जलता 'ड-लयोरैक्यात् ,, जडता, अहो ! मूर्खता, यतस्तन्मतानुयायपि न तन्मते दोषमपाकरोति किन्तु मतान्तरमेव पूत्करोति, अल्पसत्त्वता अल्पबलता, बुद्धोक्तेः दूषणस्योद्धारासामर्थे प्रकारान्तरमाश्रितं यत इत्यर्थः // 25 // अन्यापि परविकत्थना न परीक्षा चूलामा धिरोहतीत्याहइदं परेषामुपपत्तिदुर्बल कथश्चिदेतन्मम युक्तमीक्षितुम् / अथात्मरन्ध्राणि च सन्निग्रहते हिनस्ति चान्यान् कथमेतदक्षमम् // 26 // इदमिति / “परेषामुपपत्तिदुर्बलमिदं, मर्मतत् कथञ्चिदै क्षितुं युक्तम्, अथ मात्मरन्ध्राणि सन्निगूहते, अक्षमम् एतत् कथमन्यान् हिनस्ति च' इत्यन्वयः /