________________ दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका। 181 न कार्य , तथाच सर्वज्ञ एव परीक्षाविषय इत्यर्थः // 23 // __ परीक्षया यस्य वचनमुपपद्यते तस्य परिग्रहः कार्यः / परीक्षया यथा जिनवचनं युक्तिमत् तथा यदि बुद्धादीनामपि तथाऽस्तु, बुद्धोऽपि सर्वज्ञः, नोचेत् तदा जिन एवाप्तः सर्वज्ञ इति तद्वचनमेवोपादेयमित्याशयेनाह यथा ममाप्तस्य विनिश्चितं वच स्तथा परेषामपि तत्र का कथा / परीक्ष्यमेषां त्वनिविष्टचेतसा __ परीक्ष्यमित्यर्थरुचिर्न वळच्यते // 24 // यथेति / "ममाप्तस्य वचो यथा विनिश्चितं, तथा परेषामपि, तत्र का कथा, निविष्टचेतसा त्वेषां परीक्ष्यम् , परीक्ष्यमित्यर्थरुचिर्न वञ्च्यते” इत्यन्वयः। मम स्याद्वादिनः, आप्तस्य दोषमुक्तस्य मान्यस्य परमगुरोजिनस्य, वचः वचनं, यथा येन प्रकारेण, विनिश्चितं बाधारहितार्थकत्वेन निश्चितप्रामाण्यक, तथा तेन प्रकारेण, परेषामपि बौद्धादीनामप्याप्तस्य बुद्धादेवचनं निश्चितप्रामाण्यक, तत्र तथा वस्तुस्थितौ, का कथा को विवादः, निश्चितप्रामाण्यकत्वेन द्वयोरप्युपादेयत्वसम्भवात् किन्तु अनिविष्टचेतसा तु कदाग्रहरहितचित्तेन पुनः, एषां बुद्धादीनां वचनमिति शेषः, परीक्ष्य अबाधितार्थकमिदं बाधितार्थकं वेति पक्षद्वयविरचनापुरस्सरं बाधितार्थकत्वमबोधा बाधितार्थकत्वेन निष्टङ्कनीयम् , परीक्ष्यं परीक्षागोचरीकृतम् इति एतावता, अर्थरुचिः तदर्थेच्छा, न वळच्यते न विहन्यते, किन्तु तदर्थश्रद्धा सुदृढा भवतीत्यर्थः // 24 // .. जैनेन दूषिते बुद्धादिमते बौद्धादयः स्वशास्तारं तटस्थं विधाय परदूषणोद्धारप्रवृत्ता भवन्ति तत्प्रवृत्तिरपि न समीचीनेत्याह मयेदभ्यूहितमित्यदोषलं न शास्तुरेतन्मतमित्यपोह्यते / तथापि तच्छिष्यतयैव रम्यते कृतज्ञतैषा जलताऽल्पसत्त्वता // 25 //