SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 180 दिवाकरकृता किरणावलीकलिता षष्टी द्वात्रिशिका / जघन्येति / जघन्यमध्योत्तमबुद्धय एकोऽपकृष्टबुद्धिः अपरो मध्यमबुद्धिः, नात्यन्तापकृष्टबुद्धिर्नाप्यन्तोत्कृष्टबद्धिः, किन्तु तन्मध्यव्यवस्थितबुद्धिः, तदुभयविलक्षणः पुनः उत्तमबुद्धिरत्यन्तोत्कृष्टबुद्धिरित्येवं जघन्यमध्योत्तमबुद्धयः, महत्त्वमाना. भिनिविष्टचेतसः महत्त्वमानयोरभिनिविष्टानि चेतांसि येषां ते महत्त्वमाना. भिनिविष्टचेतसः अहं महान् मां पूजयन्ति बहवो जना इति लोकानां माननीयोऽहमित्येवं महत्त्वमानाभिमानकदाग्रहगृहीतचेतसः, उत्थिताः स्वस्वमर्यादामुल्लङ्घय स्थिताः सन्तः वृथैव प्रयोजनमन्तरेणैव, तावदिति वाक्यालङ्कारे, विवदेयः विवादं कुर्युः, लब्धा यदि तत्त्वार्थलाभशालिनो यदि तर्हि, दिशन्तु इदमत्र तत्त्वमित्येवमुपदिशन्तु, अत्र एतल्लब्धतत्त्वार्थोपदेशे, को विस्मयः न किमप्याश्चर्यमित्यर्थः // 22 // परीक्षाविषयमुपदर्शयतिअवश्यमेषां कतमोऽपि सर्ववि ज्जगद्धितैकान्तविशालशासनः / स एष मृग्यः स्मृतिसूक्ष्मचक्षुषा तमेत्य शेषैः किमनर्थपण्डितैः // 23 // अवश्यमिति / “एषां कतमोऽपि जगद्धितैकान्तविशालशासनोऽवश्यं सर्ववित् स्मृतिसूक्ष्मचक्षुषा स एष मृग्यः तमेत्य अनर्थपण्डितैः शेषः किम्" इत्यन्वयः। एषां नवीनपुरातनानां मध्ये, कतमोऽपि यः कश्चिदेकः, जगद्धितैकान्तविशालशासनः विश्वजनस्य हितं जगद्धित जगद्धिते एकान्तमविनाभावि जगद्धितैकान्तं विशालं विस्तीर्णं च तच्छासनं च विशालशासनं जद्धितैकान्तं विशलशासनः यस्य स जगद्धितैकान्तविशालशासनः जगद्धितैकान्तावबोधविस्तीर्णशास्त्रकर्ता, अवश्य निश्चितं, सर्ववित् सर्वज्ञः, स्मृतिसूक्ष्मचक्षुषा पूर्वापरशास्त्रावबोधजन्यतदर्थानुभवोपजातदृढसंस्कारप्रभवाशेषानुभूतार्थविषयकस्मरणलक्षणसुक्ष्मनेत्रेण, स एषः सर्वज्ञः सः, मृग्यः अन्वेषणोयः, तं सर्वज्ञं, एत्य ज्ञात्वा, अनर्थपण्डितैः अनिष्टार्थविषयकपाण्डित्यशालिभिः, शेषैः सर्वज्ञभिन्नैः किं न किञ्चिदिति तदन्वेषण न
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy