________________ 179 दिवाकरकृता किरणावलीकलिता षष्टो द्वात्रिंशिका / अपनपा निर्लज्जता, विगता अपनपा व्यपत्रपा सलज्जता, न मयि सलज्जता न भवेत् , निघृणो निर्लज्जश्चाहं यदि स्यात्तथाऽहमद्यैव, पुरातननिर्मितशास्त्रसदृशशास्त्रनिर्माणदक्षोऽहमद्यैव भवेयम्, न चेत् ईदृशशास्त्रनिर्माणकर्ता यद नाई भवेयम्, तदा मां धिास्तु धिक्कारो भवन्वित्यर्थः // 20 // यथा पुरातनैः शास्त्राणि निर्मितानि तथा नवा नैरपि, तत्र नवीन निर्मितशास्त्राण्युन्नतिं गतानीति तेष्वेवादरो विधेयो न पुरातननिर्मितशास्त्रेष्वित्याह-- कृतं न यत् किञ्चिदपि प्रतर्कतः स्थितं च तेषामिव तन्न संशयः। कृतेषु सत्स्वेव हि लोकवत्सलैः कृतानि शास्त्राणि गतानि चोन्नतिम् // 21 // कृतं चेति / "प्रतर्कतः यत् किञ्चिदपि कृतं च, तेषामिव स्थितं च तत्, न संशयः, कृतेषु सत्स्वेव, हि, लोकवत्सलैः कृतानि शास्त्राणि उन्नतिं च गतानि' इत्यन्वयः / प्रतर्कतः प्रकृष्टतर्कतः, यत्किञ्चिदपि यत्किपि, कृतं च नवीनैः निर्मितं च, तेषामिव पुरातनानां कृतं यथा व्यवस्थितं तथा, स्थितं च व्यवस्थितं च तत् नवीनं कृतम्, न संशयः एतद्विषये संशयो नास्ति, एवं सत्यपि यो विशेषस्तमाह-कृतेषु सत्स्वेव प्राचीननवीननिर्मितशास्त्रषु सत्स्वेव, यतः लोकवत्सलैः लोकानां सन्मार्गोपदशकत्वेन प्रियतमैरभिनवैरपि तीर्थकृद्भिः कृतानि निर्मितानि शास्त्राणि शासनानि, उन्नतिं च अतिप्रकृष्टपदवीं च, गतानि प्राप्तानीत्यर्थः // 21 // प्रस्तुतायां परीक्षायां विवादं परित्यज्य यत्य यत्समुचितं प्रतिभाति तत्तेन वक्तव्यं परेण चाग्रहं परित्यज्य तत् स्वकर्तव्यमित्येवं परीक्षितोऽर्थ उपादेयो भवतीत्याशयेनाह जघन्यमध्योत्तमबुद्धयो जना ___ महत्त्वमानाभिनिविष्टचेतसः। वृथैव तावद् विवदेयुरुत्थिता दिशन्तु लब्धा यदि कोऽत्र विस्मयः // 22 //