SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 178 दिवाकर कृता किरणावलीकलिता षष्ठी द्वात्रिंशिका / विवदमानयोस्तयोः वाक्यार्थपरीक्षणक्षमो यदि तृतीयो भवेत् तदा मध्यस्थस्थानीयः स विवाद शर्मायतुं समर्थ इति तृतीयस्यावश्यकतेत्याशयेनाह-यदा-पुनः स्युः विवादनिवृत्तिप्रयोज्यवस्तुनिर्णयानुरोधन वाक्यार्थपरीक्षणक्षमाः त्रयो यदि स्युः, तदा मां पुरातनभक्तं, अतीत्य अतिक्रम्य तत्त्रयमध्येऽगणयित्वा, त्रितयं न भविष्यति न स्यात्, तथा च पुरातनपक्षसमर्थकस्य मम परीक्षकमध्यप्रवेशे परीक्षातोऽपि पुरातनोक्तमान्यता स्यादेवेति पराकूतं, तत् प्रतिक्षेप्तुमाह-, एतत् मामतीत्य त्रितयं न भविष्यतीत्येतद्वचन, बृहत् आग्रहाविष्टवचनत्वादधिकम् उच्यते परेण कथ्यते / यस्य कस्यचिद्विशिष्टज्ञानशालित्वं तस्य सर्वस्य भवतोऽ. न्यस्य वा वाक्यार्थपरीक्षणक्षमत्वं स्यादेवेति वादिप्रतिवादिमध्यस्थैतत्रितये मध्यस्थतया तव प्रवेशो नान्यस्येति युक्तिरिक्तं वचनम्, एवं च परीक्षादरणे पुरातनोक्तत्व. मकिञ्चित्करं य एवार्थों युक्त्योपपद्यते स एवार्थः पुरातनोक्तोऽभिनवोक्तो वा आदरणीय इत्याशयः // 19 // पुरातनकृतौ परीक्षकानुसारी स्वस्यारुचिं प्रकटयति-- पुरातनैर्यानि वितर्कगवितैः कृतानि सर्वज्ञयशःपिपासुभिः / घणा न चेत् स्यान्मयि न व्यपत्रपा तथाहमचैव न चेद् धिगस्तु माम् // 20 // पुरातनैरिति / “वितर्कगर्वितैः सर्वज्ञयशःपिपासुभिः पुराततैर्यानि कृतानि चेद् घृणा मयि न स्यात् व्यपत्रपा, तथाऽहमप्यैव न चेत् मां धिगस्तु'' इत्यन्वयः। वितर्कगवितैः विविधास्तर्काः विषयपरिशोधकात्माश्रयान्योऽन्याश्रयचक्रकानवस्था. लाघव-गौरवादिलक्षणा वितर्काः तैः गर्विता एतादृशान् वितर्कान् कर्तुं वयमेव समर्था इत्यभिमानशालिनो वितर्कगवितास्तैः, सर्वज्ञयशापिपासुभिः अयं सर्वज्ञः इत्येवं लोकव्यापिवचनप्रवर्तनलक्षणं यत्सर्वज्ञयशः तत् पिपासुभिस्तन्मे भववितीच्छावद्भिः, पुरातनैः प्राचीनैः, यानि शास्त्राणि, कृतानि रचितानि, चेत् यदि, घृणा भूतानुकम्पा, मयि, न स्यात् भवेत्, न व्यपत्रपा त्रपा लज्जा अपगता त्रपा
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy