________________ दिवाकरकृता किरणावलीकलिता षष्ठी द्वात्रिशिका / 177 परेऽद्य जातस्येति / “जाल्मः कृतः” इत्यस्य स्थाने “जाल्मैः कृतं" इति पाठो युक्तः / “परेऽद्य अतस्य किल अद्य वचो युक्तिमत् पुरातनानां दोषवद्वचः किल आल्मैः कृतमित्युपेक्षितुं प्रपञ्चनायास्य जनस्य किमेव सेत्स्यति'' इत्यन्वयः / परेऽद्य जातस्य द्वि-त्रिदिनाभ्यन्तरदिवसे उत्पन्नस्य, लोकोक्त्यनुकृतिरियं, न ह्येवम्भूतस्य जनस्यातिबालस्य स्पष्टं वचनमपि सम्भवति, किन्त्वनेन नवीनस्येति लक्ष्यते, किलेत्यसम्भावितसम्भावनायाम् , अद्य वचः एतदिवससमुद्भवं वचनम् अनेनाप्यत्यभिनवं वचनं लक्ष्यते, युक्तिमत् सयुक्तिकार्यप्रतिपादकम्, पुरातनानां चिरन्तनानां पुरुषाणाम् , दोषवद्वचः दोषोपेतार्थप्रतिपादकं वचनम्, किल सम्भाव्यते, इदं किल जाल्मः मूर्खः, कृतं रचितं, न खलु पण्डितानामेतादृशं वचनं सम्भवति, इति एवं प्रकारेण, उपेक्षितुं पुरातनवचनोपेक्षां विधातुम्, प्रपञ्चनाय व्यामोहाय, अस्य जनस्य, पुरातनानुरक्तस्यास्मद्विधजनस्य अस्य प्रपञ्चनायेत पूर्वेणान्वयः, किमेव सेत्स्यति नैव सिद्धिं यास्यति, नैतावता पुरातनानां वचनमनुपादेयं नवीनानां वचनमुपादेयमिति पुरातनानुसारिनिगः // 18 // अत्र परीक्षामन्तरेण न पुरातनवचनमुपादेयमिति परीक्षकानुसारी आहत्रयः पृथिव्यामविपन्नचेतसो न सन्ति वाक्यार्थपरीक्षणक्षमाः। यदा पुनः स्युबूंहदेतदुच्यते न मामतीत्य त्रितयं भविष्यति // 19 // त्रय इति / “पृथिव्यामविपन्नचेतसो वाक्यार्थपरीक्षणक्षमास्त्रयो न सन्ति, यदा पुनः स्युः मामतीत्य त्रितयं न भविष्यतीत्येतद् बृहदुच्यते' इत्यन्वयः / पृथिव्यां समग्रेऽपि भूमण्डले, अविपन्नचेतसः न विपन्नं विनष्टं चेतो ज्ञानं येषां ते अविपन्नचेतसः देदीप्यमानज्ञानवतः, वाक्यार्थपरीक्षणक्षमाः वाक्यार्थस्य परीक्षणे अयमत्र वाक्यार्थो भवितुमर्हति अयं च नेत्याकारकपरीक्षायां, क्षमाः समर्थाः, त्रयः त्रित्वसङ्ख्यावन्तः, प्रमातारः, न सन्ति न विद्यन्ते, द्वावेव वाक्यार्थपरीक्षणक्षमौ स्यातां का नो हानिरिति, न च वाच्यं तयोरेकः कथयेदयं वाक्यार्थः द्वितीयश्च कथयेन्नायं वावयार्थः / किन्वितोऽन्यः एवं 12