________________ 176 दिवाकरकृता किरणावलीकलिता षष्ठी द्वात्रिशिका / अवलोकयितुं च, यदा न शक्नोति न समर्थो भवति, अथ तदन्तरं, आप्तसंपा. दितगौरवः आप्तेन स्वाभिमताप्तेन संपादितः त्वं कृतविद्योऽसि, प्रवीणोऽसीत्यादिप्रशंसावचननिष्पादितं गौरवं गुरुत्वं यस्य स आप्तसंपादितगौरवः, जनः शठः, परीक्षकक्षेपमुखः परीक्षकस्य क्षेपे तिरस्कारे मुखमाननं यस्य स परीक्षकक्षेपमुखः सन्, निवर्तते कथातो निवर्त्तते // 16 // कीदृशं परीक्षकतिरस्कारवचनमस्येत्याकाङ्क्षायां तद्वचनमुपदर्शयतित्वमेव लोकेऽद्य मनुष्य ! पण्डितः खलोऽयमन्यो गुरुवत्सलो जनः / स्मृतिं लभस्वारभ नेति शोभसे। दृढश्रुतैरुच्छ्वसितुं न लभ्यते // 17 // त्वमेवेति / "हे मनुष्य ! लोके अद्य त्वमेव पण्डितः अयमन्यो गुरुवत्सलो जनः खलः, स्मृतिं लभस्व, आरभ, न शोभसे दृढश्रुतैः उच्छ्वसितुं न लभ्यते' इत्यन्वयः। हे मनुष्य ! साधारणमनुष्यमात्र ! लोके अस्मिन् लोके, अद्य इदानीं, त्वमेव परीक्षाया आवश्यकत्वं ब्रुवाणः त्वमेव, पण्डितः विद्वान्, अयमस्मदादिः, अन्यः त्वत्तो भिन्नः, गुरुवत्सलः गुरूणां स्नेहपात्रं, जनः, खलः दुष्टः, स्मृति लभस्व स्वात्मनः स्मरणं कुरु, आरभ कथातो विरामं कुरु, न शोभसे पण्डितानामस्मादृशां सभायां न शोभसे, दृढश्रुतैः दृढं श्रुतं श्रुतज्ञानं येषां ते दृढश्रुताः तैस्सह उच्छ्व सितुं किञ्चदपि वक्तुं, न लभ्यते न पार्यत इति, एवं परीक्षकक्षेपमुखः इत्यर्थः // 17 // पुनः पुरतनानुसारिणां परीक्षकक्षेपवचनमुपदर्शयतिपरेऽद्य जातस्य किलाध युक्तिमत् पुरातनानां किल दोषवद्वचः। किमेव जाल्मः कृत इत्युपेक्षितुं . प्रपञ्चनायास्य जनस्य सेत्स्यति // 18 //