________________ दिवाकरकृता किरणावलीकलिता षष्ठो द्वात्रिंशिका / 175 __ यदि परीक्षामन्तरेण न वस्त्वभ्युपगन्तुमहं तदा परीक्षाक्षेप्तणां शठानां निग्रहाय सभायां नृपस्याप्यावश्यकता, अन्यथा तु नृपस्य नावश्यकत्वं, धर्मस्य धिक्कार एव कलेरेव सर्वत्र विजयः, शठैः कृपणस्य जगतो मोहगते निपात एवेत्याह वृथा नृपैतमदः समुद्यते धिगस्तु धर्म कलिरेव दीप्यते / यदेतदेवं कृपणं जगच्छ7 रितस्ततोऽनर्थमुखैविलुप्यते // 15 // वृथेति / “यदेतत् कृपणं जगत् इतस्तस्तोऽनर्थमुखैः शठेविलुप्यते, एवं नृपैर्भर्तृमदः वृथा समुह्यते धर्म धिगस्तु कलिरेव दीप्यते' इत्यन्वयः। यदेतत् च, अनर्थमुखैः परिदृश्यमानं, कृपणं कृपापात्रं, जगद् जननिकर, इतस्ततः लोकानां समक्षमसमक्षं अनर्थमेव मुखे येषां तेऽनर्थमुखास्तैः, शठैः शाट्यशालिभिबुंधापसदैः, विलुप्यते धर्ममार्गात् प्रच्याव्य मोहगर्ने निपात्यते, एवं सति, नृपैः भूपतिभिः, भर्तृमदः स्वामित्वाभिमानः, वृथा निष्प्रयोजनमेव, समुह्यते सम्यगृह्यते, धर्म प्रति, धिग् धिक्कारो भवतु, कलिरेव अधर्मो दीपकः, कलिकालाख्यः, दीप्यते प्रकाशते इत्यर्थः / / 15 / परीक्षाकातराणां पुरातनानुसारिणां शठानां दुश्चेष्टितमुपदर्शयितुमाहयदा न शक्नोति विगृह्य भाषितुं परं च विद्वत्कृतशोभमीक्षितुम् / अथाप्तसंपादितगौरवो जनः / परीक्षकक्षेपमुखो निवर्तते // 16 // यदेति / “विद्वत्कृतशोभं परं विगृह्य भाषितुं ईक्षितुं च यदा न शक्नोति अथ आप्तसंपादितगौरवो जनः परीक्षकक्षेपमुखो निवर्त्तते” इत्यन्वयः / विद्वत्कृतशोभं विद्वद्भिः पण्डितैः कृता शोभा प्रशंसा यस्य स विद्वत्कृतशोभम् , परं परीक्षाऽवश्यमेव विधेयेति, वादिनम् विगृह्य पराजित्य, भाषितं वक्तुम्, ईक्षितुंच