________________ 174 दिवाकर कृता किरणावलीकलिता षष्ठी द्वात्रिंशिका / सुबुद्धमेवेति विशेषतो नु कि _प्रशंसति क्षेपकथा किलेतरा // 13 // यथैवेति / तपसा तपोबलेन, यथैव येनैव प्रकारेण, दृष्टं साक्षात्कृतं, तथा तेन प्रकारेण, कृतं शास्त्रं रचितम्, अयं शास्त्रे प्रतिपादितो वादः, युक्तिवादः युक्तिप्ररूपणमात्रमेव, न त्वत्र तत्त्वम् , इति न नैव, यतः, इदं शास्त्रे यत् प्ररूपणं तत् , ऋषेः परमर्षेः, वचः इति एवं, विशेषतः विशेषरूपेण, सुबुद्धमेव ज्ञातमेव, इतरा परमर्षिवचन भिन्ना, क्षेपकथा परवादिन आक्षेपकथा, किलेति संभावनायाम्, परीक्षामन्तरेणैव पुरातनोक्तमादेयमिति प्राचीनानुसारिणोऽभिप्राय प्रकटनम् // 13 // इत्थं पुरातनप्रशंसनं न युक्तमित्यावेदनायाह-- कथं नु लोके न समानचक्षुषो यथा न पश्यन्ति वदन्ति तत्तथा / अहो न लोकस्य न चात्मनः क्षमां पुरातनैर्मानहतैरुपेक्षितम् // 14 // कथं न्विति / लोके इदानीन्तनविद्यमानलोके, नु इति वित, कथं कस्मात् कारणात्, समानचक्षुषः समानदृष्टयो जनाः, न न विद्यन्ते, यं यथा न, पश्यन्ति येन प्रकारेण नावलोकयन्ति, तद् वस्तु, तथा तेन प्रकारेण, वदन्ति कथयन्ति, इदानीन्तनलोका अपि यद्वस्तु येन रूपेण साक्षात्कुर्वन्ति तद्वस्तु तेनैव रूपेण कथयन्तीति समानदृष्टय एवेत्याशयः। अहो आश्चर्य मेतत् , यदुत मानहतैः प्रमाणखण्डितैः, पुरातनैः प्राचीनैः, लोकस्य जनस्य, क्षमा शान्ति, अधिकृत्येति दृश्यम् , न नैव, उपेक्षितं यथाऽयं लोको वदति तथा भवतु नाम का नो हानिहित्येवमुपेक्षा न कृता, च पुनः, आत्मनः स्वस्य क्षमामधिकृत्य न उपेक्षितं कुर्वन्तु नाम लोका येन केनचित् प्रकारेण मम गतापनोदनं किं तेनेत्येवमुपेक्षा न कृता तथा तथा च मानरहिततत्त्वप्ररूपकशास्त्रप्रणयनेन लोकस्य स्वस्य चाशान्तिः कृतैवेत्यर्थः // 14 //