________________ दिवाकर कृता किरणावलीकलिता षष्टी द्वात्रिंशिका / 173 सामान्यविकलो विशेषो न सम्भवतीत्यतो नित्यत्वाद्यन्वितोऽनित्यत्वाद्यर्थः, अनित्यत्वाद्यन्वितो नित्यत्वाद्यर्थः, तद्वत्तया वाचकत्वसम्बन्धेन तत्सम्बन्धितया, तु पुनः, कृतानि निर्मितानि, शास्त्राणि शासनानि, विरोधशीलः विरोधस्वभावः, अबहुश्रुतः बहुशास्त्रावलोकनकत्ता न बहुश्रुतोऽबहुश्रुतोऽल्पज्ञः, जनः पुनः, न पश्यति शास्त्राणि न पश्यति, इति एतस्मात् कारणात् , एतदपि अनन्तरमुपदशितं मूढोपदिष्टमपि, प्रशस्यते अबहुश्रुतैः प्रशस्यते // 11 // यद् यत् साध्यं वस्तु तत्र तदेव भवितुमर्हति न त्वन्यत इति वस्तुस्थिती कर्मसाध्ये वस्तुनि ज्ञानसाध्यः त्वं न भवति, समानेषु यस्य न रागः, तस्य विशेषेऽप्यरागो युक्तः, एवं व्यवस्था परित्यक्तवत्सु वादिषु साधुस्वभावो न संभवतीति न तत्कृतं शास्त्रं साधुकृतमित्याह-- यदग्निसाध्यं न तदम्भसा भवेत् प्रयोगयोग्येषु किमेव चेतसा / समेष्वरागोऽस्य विशेषतो नु किं विमृश्यतां वादिषु साधुशीलता // 12 // यदग्निसाध्यमिति / यथाश्रुतानुसार्येवात्रान्वयः। यद् वस्तुतापादिकम् , तद् अग्निसाध्यं वह्निसाध्यं, न तद् अम्भसा जलेन न भवेत्, प्रयोगयोग्येषु प्रकृष्टकर्मयोगसाध्येषु, चेतसा मनसा, किमेव न किञ्चित् , मनसा कर्मसाध्य वस्तु कर्मणि कृतमेव भवितुमर्हति न तु मनोचिन्तनमात्रेण, प्रयाससाध्य वस्तु प्रयासेनैव, न तु ज्ञानमात्रेणेत्यर्थः / समेषु समानेषु, अस्य वादिनः, अरागो रागाभावो, तर्हि विशेषतः विशेषरूपेण, नु इति वितर्के, किं किं स्यात् , विमृश्यतां विचार्यताम् , वादिषु एकान्तवादिषु, साधुशीलता साधुस्वभावः, विमर्श क्रियमाणेषु तु न वादिषु साधुशीलता समस्तीत्यर्थः // 12 / / वादिषु साधुशीलता चेत् विशेषतः कस्यचित् प्रशंसाऽपि वादिना विधेयेति विशेषतः प्रशंसामगि करोत्येवेत्याह-- - यथैव दृष्टं तपसा तथा कृतं न युक्तिवादोऽयमृषेरिदं वचः /