________________ 172 दिवाकर कृता किरणावलीकलिता षष्ठी द्वात्रिशिका / यदेव यस्याभिमतं तदेव त च्छिवाय मूढेरिति मोहितं जगत् // 10 // परीक्षितुमिति। "हे गुगोघ ! ते विशिष्य जातु परीक्षितुं शक्यते तर्कपथोद्धतो जनः यस्य यदेवाभिमतं तच्छिवाय तदेवेति मूढैः जगत् मोहितम्” इति सम्बन्धः। कञ्चिदुपदेष्टव्यं संबोधयति-हे गुणौघ ! गुणानामोघः समुदायो यस्मिन् स गुणौघः, तत्सम्बोधने हे गुणौघ ! ते तव गुण इति सामर्थ्याल्लभ्यते, विशिष्य विशेषरूपेण परीक्षितुं शक्यते, जातु कदाचित् काक्वा कदाचिदपि विशिष्य परीक्षितुं न शक्यते इत्यर्थः / ननु तार्किका नैयाकिकादयः परीक्षितं परीक्षां कतुं विदग्धा इत्यत आहतर्कपथोद्धतः तर्कपये तर्कमार्गे उद्धतः इदं सत्यमिदमसत्यमिति विवेकमनादृत्य प्रवृत्तः, तर्कपथोद्धतः परंपराभवितुं सत्यासत्यविवेकमकृत्वेव अनल्पतर्कतर्कणरसिकः, जनः लोकः, तथा च न तेन विशिष्य गुणपरीक्षायुक्ता, तहिं किमत्र तत्त्वमित्याकाङ्क्षायामाह-यस्य यत्पुरुषस्य, यदेव यत्फलसाधनमेव, अभिमतम् इष्टं तच्छिवाय तस्य कल्याणाय, तदेव तत्फलसाधनमेव, इति एवंप्रकारोपदेशेन, मूढैः शास्त्रतत्त्वानभिज्ञेर्मुग्धैः, जगत् विश्वं, मोहितं मोहगत्तें पतितमित्यर्थः // 10 // मूढो यदिष्टमप्यबहुश्रुतैः प्रशस्यत इत्याहपरस्परावर्णितया तु साधुभिः कृतानि शास्त्राण्यविरोधदर्शिभिः / विरोधशीलस्त्वबहुश्रुतो जनो __ न पश्यतीत्येतदपि प्रशस्यते // 11 // परस्परान्वर्थितयेति / "अविरोधदर्शिभिः साधुभिः परस्परान्वर्थितया तु कृतानि शास्त्राणि विरोधशीलोऽबहुश्रुतो जनस्तु न पश्यति इति एतदपि प्रशस्यते" इत्यन्वयः। अविरोधदर्शिभिः नित्यत्वानित्यत्वादिधर्माणामवच्छेदकभेदेनैकत्र * समावेशसम्भवान्न विरोध इत्येवमविरोधं पश्यद्भिः, साधुभिः मुनिप्रवरैः, परस्परान्वर्थितया परस्परमन्योऽन्यमन्वितोऽर्थः नित्यत्वमन्तरेणानित्यत्वं नोप• पद्यते, अनित्यत्वमन्तरेण नित्यवं नोपपद्यते निर्विशेष सामान्यं न सम्भवति,