________________ दिवाकरकृता किरणावलीकलिता षष्टी द्वात्रिंशिका / 171 कश्चिदलसः काकभाषादिविज्ञानग्रन्थं स्वल्पमेव ज्ञात्वा स्वविदितं तदेव प्रशंसन् न विस्मयाधायकः तद्विषयकस्य स्वल्पज्ञानस्यापि तत्र सद्भावात् , यस्त्वलसोऽहं परोक्षमप्येतदवगच्छामि मया ज्ञातमेतद् बहु सुन्दरमित्येवं मिथ्याऽभिमानमाश्रित्य प्रशंसति च तदज्ञानरोगविमुक्तिजनकं भेषजमपि नास्त्यति मूढोऽसावित्याह न विस्मयस्तावदयं यदल्पता मवेत्य भूयो विदितं प्रशंसति / परोक्षमेतत् त्वधिरुह्य साहस प्रशंसतः पश्यत किं नु भेषजम् // 9 / / न विस्मय इति / “यत् अल तामवेत्य विदितं भूयः प्रशंसति अयं तावन्न विस्मयः, साहसमधिरुह्य परोक्षमेतत् प्रशंसतस्तु किं नु भेजमिति पश्यत" इत्यन्वयः / यत् विशेषतोऽनिर्दिष्टं किमपि काकभाषादिविज्ञानम् , अल्पताम् देव एव देवतेति अल्पमेवाल्पतेति अल्पं परिमितम्, अवेत्य ज्ञात्वा, विदितं ज्ञातं यत्किञ्चित् तत्तत्त्वं, भूयः बहुवारं, प्रशंसति अहो मया ज्ञातमेतदपूर्व नान्यः कश्चिज्जानातीति प्रशंसां करोति, अयं अयमेतत्प्रशंसनलक्षणव्यापारः स्वपाण्डित्याविर्भावकः, तावद् न विस्मयः नाश्चर्यजनकः, स्वल्पविषयकस्यापि ज्ञानस्य सद्भावात् , साहसं यदन्यैः कतुं न शक्यते तदप्यहं करिष्यामीति साहसम् , अधिरुह्य आश्रित्य, परोक्ष प्रत्यक्षज्ञानाविषयीभूतं, एतत् स्वल्पमपि किमपि वस्तु, प्रशंसतस्तु प्रशंसां कुर्वतः पुरुषस्य पुनः, किं नु मेषजं किं तदज्ञानव्याधिनिवर्त्तकमौषधं भवेत् , हे वुधाः इति पश्यत अवलोकयत, अहो मोहस्य माहात्म्यं यत् किमपि न जानाति अथापि प्रशसंति तदित्यर्थः // 9 // परीक्षया विशेषविज्ञानं कर्तुमशक्यमिति किं परीक्षया, यदेव यस्याभिरुचितं तदेव तत्कल्यायेत्येवं परीक्षाऽक्षमाणां मूढानामुपदेशतो मोहितं जगन्न परमार्थलाभं प्रतिपद्यते इत्याह परीक्षितुं जातु गुणौध ! शक्यते विशिष्य ते तर्कपथोद्धतो जनः /