________________ 170 दिवाकर कृता किरणावलीकलिता षष्टी द्वात्रिंशिका / नाभूतानि, मनुष्यवृत्तानि मनुष्यवृत्तिसदाचरण-धनवत्व-पुत्रवत्वादीनि, यो य एवम्भूतमनुष्यलक्षणवान् पुरुषः स एवम्भूताचरणादिमानित्येवं व्याप्तिरत्र ज्ञेया, तैः मनुष्यलक्षणैः, स्वयं यथावतसामुद्रिका दिशास्त्राभिज्ञपुरुषोपदेशमन्तरेणैव, अलब्ध. पाराणि न लब्धोऽलब्धः पाराः एतावन्त्येव मनुष्यवृत्तानीत्येवंस्वरूपा सीमा येषां तान्यलब्धपाराणि, वस्तुस्वभावगत्या च अगाधपाराणि ज्ञापयितुं परिच्छेत्तुमशक्याः परिसीमा येषां तानि अगाधपाराणि, एतादृशानि मनुष्यवृत्तानि, अलसेषु सामुद्रिकादिशास्त्रपरिशलने आलस्यवत्सु मध्ये यः कश्चित् , कर्णवान् यद्यपि सर्वोऽपि मनुष्यः कर्णेन्द्रियवान् भवत्येव तथापि कर्णवानित्यनेन स्वयं तत्तन्मनुष्यवृत्ताद्यवगतये तत्तन्मनुष्यलक्षणयथावगतिहेतुपरिश्रममन्तरेणैव तदाभिज्ञपुरुषोच्चरितशब्दश्रवणमात्रतस्तत्तल्लक्षणं विज्ञायते, न लक्षणेन यथाकथंचित् मनुष्यवृत्तज्ञानवानवबोध्यते तथा चालसेषु मध्ये एतादृशः कर्णवान् पुरुषः कथं गृहीष्यति ? न कथञ्चिद् गृहीष्यतीत्यर्थः // 7 // यत्किञ्चिदपि पुरातनोक्तमादरेण गृह्णाति प्रमाणविनिश्चतार्थामप्यभिनववाक्कृतिं न पठति, नापि पाठयति तत्र स्मृतिव्यामोह एव निबन्धनमित्याह यदेव किञ्चिद् विषमप्रकल्पितं पुरातनरुक्तमिति प्रशस्यते / विनिश्चिताऽप्यद्य मनुष्यवाककृति न पाठयते यत् स्मृतिमोह एव सः // 8 // यदेवेति / अत्रान्वयाधिगतिः सुकरैव / विषमप्रकल्पितं सम्यक्युक्त्यविषयत्वाद् विषमं च तत् कल्पनामात्रविषयत्वात् प्रकल्पितं च विषमप्रकल्पितं दृष्टाननुसारिकल्पनामात्राकलितम्, यदेव किश्चित् विशिष्यानिर्धारितस्वरूपं वस्तुमात्रम् , पुरातनैः प्राचीनैः, उक्तं कथितम्, इति एतस्मात् कारणात्, प्रशस्यते प्रशस्तो भवति, विनिश्चितापि प्रमाणविनिश्चिता, अद्य वर्तमानकाले, मनुष्यवाकृतिः मनुष्यस्य वाचां रचना, न नैव, पाठ्यते नाध्याप्यते, यत् यस्मात् , स प्राचीनोक्तावादरोऽभिनवकृतावनादरश्च, स्मृतिमोह एव स्मृतिव्यामोहनिबन्धन एवेत्यर्थः // 8 //