SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ दिवाकर कृता किरणावलीकलिता षष्ठी द्वात्रिंशिका / 169 विनिश्चयमिति / “अलसो यथा यथा विनिश्चयं न एति, तथा तथा निश्चितवत् प्रसीदति, अल्पधीः अवन्ध्यवाक्ये गुरवोऽहमिति व्यवस्यन् स्ववधाय धावति' इत्यन्वयः / अलसः आलस्यवान् पुरुषः, यथा यथा येन येन प्रकारेण, विनिश्चयं विशिष्टतत्त्वनिश्चयं, न नैव, एति प्राप्नोति, तथा तथा तेन तेन प्रकारेण, निश्चितवत् तत्त्वनिर्णयशालिषु सद्वत् , प्रसोदति प्रसन्नो भवति, अल्पधोः अल्पज्ञः पुरुषः, अवन्ध्यवाक्ये यद्वाक्यं निष्फलं न भवति स्वप्रतिपाद्येऽर्थे सफलमेव भवति तद्वाक्यमवन्ध्यवाक्यं तत्र, गुरवः प्रधानाः, अहं त्वं धनाढयो भूयाः, त्वं पुत्रवान् भव, अद्यवृष्टिभविष्यतीत्यादिकं यदहं ब्रवीमि तद्भवत्येवम् , इति व्यवस्यन् एवं निश्चिन्वन् पुरुषः, स्ववधाय स्वात्मविनाशाय, धावति चेष्टते-वदति असत्यं, कथयति च सत्यमहं ब्रवीमि, एवं ब्रुवाणोऽल्पधीः कदा त्वं मरिष्यसीत्येव केनचित् पृटोऽमुकस्मिन् समयेऽहं मरिष्यामीति प्रतिज्ञाय तत्समये चागते स्ववचनसत्यापनायोच्चपर्वतशिखरादिकमारुह्य पततीत्येवमात्मघात्यपि भवतीत्यर्थः // 6 // अलसो जनः शास्त्राण्यधीत्य तत्त्वं ज्ञातुमसमर्थः यत्किञ्चित् सामुद्रिकशास्त्रज्ञानतो हस्तरेखां परस्य दृष्ट्वा त्वं पुत्रवान् भविष्यसि त्रयश्चत्वारो वा भ्रातरस्तव इत्यादिकं कथयति, काकतालीयन्यायात् क्वचित् क्व चदर्थे सत्यवागपि लोके ज्ञापिते तावता पूजितोऽपि भवति, नैतावता तत्त्वज्ञानं तस्येत्यावेदयितुमाह मनुष्यवृत्तानि मनुष्यलक्षणे मनुष्यहेतोनियतानि तैः स्वयम् / अलब्धपाराण्यलसेषु कर्णवा नगाधपाराणि कथं गृहीष्यति // 7 // मनुष्यवृत्तानीति / “मनुष्यहेतोर्मनुष्यलक्षणनियतानि मनुष्यवृत्तानि तैः स्वयमलब्धपाराणि अगाधपाराणि अलसेषु कर्णवान् कथं गृहीष्यति' इत्यन्वयः / मनुष्यहेतोः मनुष्यस्य हेतोः कारणात् , यस्मान्मनुष्य जन्म भवति तस्मात् कार. णात् , मनुष्यलक्षणैः मनुष्यस्य लक्षणानि हस्तरेखा-कपालरेखा-तिलप्रभृतीनि चिह्नानि, तैः मनुष्यलक्षणैः मनुष्यकारणप्रभवमनुष्यचिह्ररित्यर्थः, नियतानि अवि.
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy