________________ 168 दिवाकर कृता किरणावलीकलिता षष्टी द्वात्रिंशिका / पुरातनत्वं न प्रतिनियतकतिपयव्यक्तिषु नियतमित्यनवस्थितानां सर्वेषामपि पुरातनानामुक्तानि पुरातनोक्तौ न वस्तुव्यवस्थापकानि स्युः, न च तत्र किञ्चिद्विनिगमकं विद्यते येन परीक्षामन्तरेणैव कानिचित् पुरातनोक्तानि वस्तुव्यवस्थापकतयोपेयानि कानिचिन्नेति कस्यचित् पुरातनोकस्य किञ्चित् पुरातनोतस्यैवोपादेयतयाऽग्रहणे परीक्षाभावाविशेषत् सर्वाण्यपि पुरातनोक्तान्यपरीक्ष्याभ्युपेयान्यनभ्युपेयानि मैवेत्याह जनोऽयमन्यस्य मृतः पुरातनः पुरातनैरेव समो भविष्यति / पुरातनेष्वित्यनवस्थितेषु कः पुरातनोक्तान्यपरीक्ष्य रोचयेत् // 5 // जनोऽयमिति / "अयं जनो मृतोऽन्यस्य पुरातनः सन् पुरातनैरेव समो भविष्यति, इति अनवस्थितेषु पुरातनेषु कोऽपरीक्ष्य पुरातनोक्तानि रोचचेद्" इत्यन्वयः / अयं पुरःस्थितः, जनः रथ्यापुरुषादिसाधारणो लोकः, मृतः मरणं प्राप्तः, अन्यस्य तदुत्तरकालीनजनिमतः पुंसः, पुरातनः सन् , पुरातनैरेव एवकारेण न तु नवीनैरिति नवीनव्यवच्छेदः, समः पुरातनत्वधर्मेण सदृशः, भविष्यति तथा चेदानीन्तना अपि लोकाः भविष्यत्कालावच्छेदेन पुरातनत्वयोगात् पुरातना इति एवं प्रकारेण, अनवस्थितेषु प्रतिनियतत्वलक्षणव्यवस्थानरहितेषु, पुरातनेषु प्राचीनपुरुषेषु, कः कः पुरुषः, अपरीक्ष्य परीक्षामकृत्वैव, पुरातनोक्तानि प्राचीनोक्तानि, रोचयेत् वस्तुव्यवस्थापकत्वेनाभ्युपेयात् / न कोऽपि पुरुषः परीक्षामन्तरेण परात्मनि वस्तुव्यवस्थापकत्वेन स्वीकुर्यादित्यर्थः // 5 // तत्त्वनिर्णयं कर्तुं निरालस एव प्रभवति न त्वलस इत्याहविनिश्चयं नैति यथा यथाऽलस स्तथा तथा निश्चितवत् प्रसीदति / अवन्ध्यवाक्ये गुरवोऽहमल्पधी रिति व्यवस्यन् स्ववधाय धावति // 6 //