________________ दिवाकरकृता किरणावलीकलिता षष्टी द्वात्रिंशिका / 167 चिन्तयितुमशक्यं च तद् दारुणं भयङ्करं च अचिन्त्यदारुण, खलु नियमेन, न विभाव्यते न विचार्यते, किन्तु, एतत् तु निम्नअलस्थालान्तरं पुनः, अचिन्त्यमभिगृह्य प्रथमं गृहीत्वा, चिन्तयेत् विचारयेदेव कियत् प्रमाणं निम्नमिति निर्णयाय विचारं कुर्यादेव, शुचः शोकस्य, परम् उत्तरकालं, क्रिया शोकनिवारणव्यापारो भवति, शोकं मा कुरु एतत्कारणादिदमुपनतं तवेत्यादि शास. नम् , अपरं शुचः पूर्वमेव, अन्यदा कालान्तरे वा, न न भवति। एवं चाचिन्त्यमेतदिति पूर्वमापाततो गृहीत्वा किं सर्वथाऽचिन्त्यमुत कथञ्चिदचिन्त्यं कथ. ञ्चिच्च चिन्त्यमिति निर्णयाय विचारं कुर्यादेव, यदि पूर्वमापाततोऽप्यचिन्त्यमिति न गृह्णीयात् तदा विचारितमेवैतदित्याकलयन्ति नीतौ तस्मिन् न निर्णयाय विचारसाफल्यमासादयेदित्यभिसन्धिः / / 3 // प्राचीनोक्तौ प्रेमवलाद् गुहिरेव नादरणीया, किन्त्वेदं प्राचीनोक्तं समीचीनं नवेति संशयोन्मूलनपुरस्सरं निर्णयाय परोक्षाविषय एवेत्याशयेनाह बहुप्रकाराः स्थितयः परस्परं विरोधरूक्षाः कथमाशु निश्चयः। विशेषसिद्धानि यमेव नेति वा पुरातनप्रेमजलस्य युज्यते // 4 // बहुप्रकारा इति। 'विशेषसिद्धानि यमेव' इत्यस्य स्थाने 'विशेषसिद्धयायियमेव'. इति पाठो युक्तः। परस्परं विरोधरूक्षाः बहुप्रकारा इति, स्थितयः, पुरातनप्रेमजलस्य इयमेव वा नेति विशेषसिद्धौ निश्चयः कथमाशु युज्यते' इत्यन्वयः। परस्परं अन्योऽन्यं, विरोधरूक्षाः विरोधेन रूक्षाः स्नेहरहिताः, बहुप्रकारा अनेकविधाः, स्थितयः तत्तन्मतव्यवस्थितयः, एवं सति पुरातनप्रेमजलस्य पुरातने प्राचीने यत्प्रेमास्ते तेन जलस्य जडस्य पुरातनप्रेमजलस्य, वादिना इयमेव एतन्मतव्यवस्थितिरेव, वा अथवा, न एतन्मतव्यवस्थितिनं समीचीना इति एवंप्रकारेण, विशेषसिद्धयै एकप्रकारवस्तुविशेषसिद्धयर्थ, निश्चयः निर्णयः, कथं कथञ्चित्, आशु शीघ्रम् , विचारमन्तरेण युज्यते युक्त इत्यर्थः // 4 //