SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता षष्ठी द्वात्रिंशिका / परीक्षयाऽलं वस्तुव्यवस्था भविष्यतीत्यत आह-- . . . पुरातनैर्या नियता व्यवस्थिति- . स्तत्रैव सा किं परिचिन्त्य सेत्स्यति / तथेति वक्तुं मृतरूढगौरवा दहं न जातः प्रथयन्तु विद्विषः // 2 // पुरातनैरिति / "पुरातनैर्या व्यवस्थितिनियता, परिचिन्त्य तत्रैव सा किं सेत्स्यति ? मृतरूढगौरवात् तथेति वक्तुं जातो नाऽहं, विद्विषः प्रथयन्तु" इत्यन्वयः / पुरातनैः प्राचीनः, या व्यवस्थितिः व्यवस्था, नियता इद. मित्थं व्यवहर्त्तव्यमस्येदं कारणं कार्य चेत्येवं नियमिता, परिचिन्त्य सर्वतः विचार्य, तत्रैव पुरातदैव सा व्यवस्था, कि सेत्स्यति किं सिद्धिं यास्यति इति प्रश्नः, एतत्प्रश्नप्रतिविधाने मृतरूढगौरवात् मृतानां प्राचीनानां रूढस्य रूढ्या कल्पितस्यार्थस्य गौरवात् कल्पनागौरवात्, तथा यथा प्राचीननियमिता व्यवस्था तथैव सा, इति वक्तुं एवं कथयितुं, जातः उत्पन्नः, नाहं परीक्ष्यार्थमुपगन्ताऽहं न, तर्हि तथेति वक्तुं के प्रगल्भा इत्याकाङ्क्षायामाह-विद्विषः एकान्तवादित्वेनास्य शत्रवः, प्रथयन्तु विस्तरार्थव्यवस्थेति कथयन्त्वित्यर्थः // 2 // ___ अचिन्त्यमेतदित्येव मत्वा विचारमकुर्वाणः स्वबुद्धिमान्यमालस्यं वा प्रकटयेन्नातो वस्तुव्यवस्था, किन्त्वापाततोऽचिन्त्यमेतदिति जानन्नपि तत्तत्त्वविनिर्णयाय विचारयेदेवेत्याह-- न खल्विदं सर्वमचिन्त्यदारुणं विभाव्यते निम्नजलस्थलान्तरम् / अचिन्त्यमेतत् त्वभिगृह्य चिन्त्ये . च्छुचः परं नापरमन्यदा क्रिया // 3 // न खल्विदमिति / “निम्नजलस्थलान्तरमिदं सर्वमचिन्त्यदारुणं खलु न विभाव्यते, एतत्त्वचिन्त्यमभिगृह्य चिन्तयेत् शुचः परं क्रिया अपरमन्यदा न" इत्यन्वयः / निमजलस्थलान्तरम् इदं पुरोवर्ति, सर्वं निखिलम्, अचिन्त्यदारुणं
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy