________________ षष्ठी द्वात्रिंशिका शिष्यः श्रीनेमिसूरेरधिगतविविधन्यायचर्चाप्रपञ्चो धीमान् लावण्यसूरिजिनवचनरतो मुक्तिमार्गकलीनः / षष्ठी द्वाविंशिकाख्यां स्तुतिमतिसुगमार्थां जनानां विधातुं __ व्याख्याति स्तुत्यवीराप्रतिहतमननध्यानकान्तावधानः // 1 // परीक्ष्य वस्तुनिर्णयः कार्यो न त्वपरीक्ष्यैवेदं वृद्धपरम्परात आगतमित्यभ्युपेयं, परीक्षातस्तु जिन एव सर्वज्ञः सिध्यति नान्य इत्याशयेन षष्ठी द्वात्रिंशिकां स्तुतिमारचयन्निदं पद्यमादौ विरचयति यदशिक्षितपण्डितो जनो . विदुषामिच्छति वक्तुमग्रतः / न च तत्क्षणमेव शीर्यते जगतः किं प्रभवन्ति देवताः॥१॥ [वैतालीयम्] यदशिक्षितपण्डित इति / “अशिक्षितपण्डितो जनो विदुषामग्रतो यद्वक्तुमिच्छति तत्क्षणमेव न च शीर्यते, किं देवताः जगतः प्रभवन्ति" इत्यन्वयः। अशिक्षितपण्डितः शिक्षितश्चासौ पण्डितश्च शिक्षितपण्डितः न शिक्षितपण्डितोऽशिक्षितपण्डितः, यश्च शिक्षामन्तरेणैव पण्डितो यो वा न शिक्षितो नापि पण्डितः एतद्द्यमपि अशिक्षितपण्डित इत्यनेन गृह्यते, जनः लोकः, विदुषां पण्डितानाम् , अग्रतः पुरतः, यत् यत् किमपि युक्तमयुक्तं वा, वक्तुं गदितुम् , इच्छति कामयते, तत्क्षणमेव तदिच्छाकालमेव, न च नैव, शीर्यते नश्यति, तदैव तदिच्छा न निवर्त्तते, पण्डितानामग्रेऽपण्डितस्त्वं न किमपि वक्तुं समर्थ इत्येवं देवतास्तत्प्रतिषेधं करिष्यन्तीत्यतः आह-कि देवताः देवाः, जगतः 'विश्वस्य, प्रभवन्ति समर्था भवन्ति, विश्वस्य किमपि कत्तुं देवा न समर्था इत्यर्थः / पण्डितानामग्रे यद्वा तद्वाऽपण्डिताः प्रलपन्तु नैतावता तत्प्रलपनमात्रेण किञ्चिद्वस्तु प्रसिद्धयति नवा किञ्चित् पण्डितानां हीयत इति भावः // 1 //