________________ 164 दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिशिका। इति निरुपमयोगसिद्धसेन इति / “इति प्रबलतमोरिपुनिर्जयेषु निरुपमयोगसिद्धसेनो वीरः सुरपुरुस्तुतस्तुतः, नः सततविशिष्टशिवाधिकारिधाम दिशतु" इत्यन्वयः / इति पञ्चमस्तुतिपरिसमाप्ती, प्रबलतमोरिपुनिर्जयेषु प्रबल:-प्रकृष्टबलशाली, तमोरिपुः-महामोहाद्यन्धकारलक्षणशत्रुः प्रबलतमोरिपुः, तस्य नितरां जयेषु, प्रबलतमसामने कन्वेन प्रत्येकं तज्जयानामपि विभिन्नत्वेन बहुवचनोक्तिः, निरुपमयोगसिद्धसेनः निरुपमः-उपमारहितो यो योगः सर्वसंवरलक्षणयोगः, सिद्धा-मोक्षजनकत्वप्रकारकसिद्धिविषयः, सेना-युद्धाङ्गभूतपदात्यादिरूपा, निरुपमयोगः सिद्धसेनः यस्य स निरुपमयोगसिद्धसेनः, यो निरुपम योगेन प्रबलतमोरिपून् जितवान् , एतद् वीरविशेषणघटकतया स्तुतिकर्ता स्वनामसंकीर्तन नुवृत्तये योजितवान् , वीरो महावीरः, पुनः कथम्भूतः ? सुरपुरुस्तुतस्तुतः सुराः-देवाः पुरवो महान्तो लोकाः, तैः स्तुताः-पूजिताः सुरेन्द्र-नरेन्द्रादयः सुरपुरुस्तुताः सुरपुरुस्तुतैः स्तुतः कृतगुणकीर्तनः सुरपुरुस्तुतस्तुतः, नः अस्मभ्यम्, सततविशिष्टशिवाधिकारिधाम सततं निरन्तरम् , विशिष्टं, शिवं कल्याणं मोक्षसुखमिति यावत् , सततविशिष्टं शिवं येषां ते सततविशिष्टशिवाः, मुक्ता इत्यर्थः, सततविशिष्टशिवा अधिकारिणो यस्य तत् सतत. विशिष्टशिवाधिकारि, सततविशिष्टशिवाधिकारि च तद् धाम च-स्थानं चसततविशिष्टशिवाधिकारिधाम, दिशतु ददात्वित्यर्थः // 32 // पञ्चम्यास्तु स्तुतेर्या विवृतिरियमलं सिद्धसेनाशयस्य ज्ञप्त्यै लावण्यसुरेरपरकृतिघटामिश्रिता तत्त्वमिश्रा / तस्यां दृष्टिबंधानां भवतु शुभमयी जैनसिद्धान्तकान्ता भक्तिर्वीरे दृढाऽतो गुणगणनिलये मोक्षदात्री भवित्री // 1 // इति श्रीतपोगच्छाधिपति-शासनसम्राट-सर्वतन्त्रस्वतन्त्रश्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पतिशास्त्रविशारद-कविरत्नेतिपदालंकृतेन श्रीविजयलावण्यसूरिणा विरचितायां किरणावलीनाम्न्यां विवृतौ पञ्चमी द्वात्रिं शिका समाप्ता //