________________ दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिशिका / 163 कोऽन्यो योग्यस्तव गुणनिधेर्वक्तुमुक्त्वा नयेन ! त्यक्ता लज्जा स्वहितगणनानिर्विशङ्ख मयैवम् // 31 // मन्दाक्रान्ता] नानाशास्त्रेति / "हे नयेन ! तव गुण कथाव्यापृतः शक्रस्तावत् नानाशास्त्रप्रगममहतों रूपिणी तां नियच्छन् खेदमेति, गुणनिधेः तव वक्तुं कोऽन्यो योग्यः, मया स्वहितगणनानिविंशङ्कमेवमुक्वा लज्जा त्यक्ता" इत्यन्वयः / हे नयेन ! नयानामोनः नयेनः, तत्संबोधने हे नयेन !, अशेषनयाधीश !, एतेन प्रत्येकं तत्तन्नयाभिमतानां गुणानां वीरे सद्भाव आवेदितः, तव महावीरस्य, गुणकथाव्यापृतः गुणकथायां गुणगणनविधौ, व्यापृतः-निरन्तर प्रयत्नवान् , शक्रः इन्द्रः, तावदिति वाक्यालङ्कारे, नानाशास्त्रप्रगममहतीं नानाशास्त्राणां यः प्रगमः प्रकृष्टज्ञानं, तेन महती-विस्तृतां, नानाशास्त्रावगमजनिततत्तच्छास्त्रोक्तगुणनिकरवचनविस्तृतविग्रहां, रूपिणीं मूतिमतीं, तां गुणकथां, नियच्छन् एतावन्तो महावीरे भगवति गुणा इत्येवं नियन्तुं-नियमितुमिच्छन् सन् ततोऽप्यधिकतरगुणानां भगवति सद्भावात् तथानियम न सम्भवतीत्यतः, खेदं दुःखम्, एति प्राप्नोति, यदि शक्रोऽप्यखिलत्वद्गुणगणनविधावसमर्थस्तदा कः, अन्यः शकाद् भिन्नः, गुणनिधेः गुणसमुद्रस्य, तव जिनस्य, वक्तुं गुणकथां कथयितुं, योग्यः समर्थः, न कोऽपि तवाशेष गुणगणनविधौ समर्थ इत्यर्थः, एवं सति मम गुणस्तुतिकरणप्रवृत्तिः 'कथं तव' इति भगवता पृष्ट इव सूरिराह-मया सिद्धसेनदिवाकरेण, स्वहितगणनानिर्विशङ्कं स्वहितस्य स्वेष्टस्य गणनायां, निर्विशङ्कं शङ्कारहितं यथा स्यात् तथा, एवम् अधिकृतत्वद्गुणोपदर्शनप्रकारेण, उक्त्वा त्वद्गुणकथां कथयित्वा, लज्जा होः, त्यक्ता निराकृता, लज्जां विहाय स्वहितार्थ स्तुतिः कृतेत्यर्थः // 31 // .. पञ्चमी स्तुतिद्वात्रिंशिकां समापयन् पुष्पिताग्रावृत्ताकलितपद्येन स्वसमीहितसिद्धये भगवन्तं महावीरं प्रार्थयति इति निरूपमयोगसिद्धसेनः प्रबलतमोरिपुनिर्जयेषु वीरः। दिशतु सुरपुरुस्तुतस्तुतो नः / सततविशिष्टशिवाधिकारिधाम ॥३२॥[पिताना]