________________ 162 दिवाकरकृता किरणावलिकलिता पञ्चमो द्वात्रिंशिका / . अन्यतैर्थिकापेक्षया भगवतो वैशिष्टयमुपदर्शयति- . वाय्वम्बुशेवालकणाशिनोऽन्ये धर्मार्थमुग्राणि तपांसि तप्ताः / त्वया पुनः क्लेशचमूविनाश भक्तोऽपि धर्मों विजिताश ! दग्धः // 30 // वाय्वम्बुशेवालकणाशिन इति / अत्रान्वयः सुगमः / अन्ये परतैर्थिकाः, धर्मार्थं धर्मो मे भवत्वित्येतदर्थ, वाय्वम्वुशेवालकणाशिनः वायुमात्रभक्षकाः, अम्बुमात्रभक्षकाः, शेवालमात्रभक्षकाः, भूपतितः स्वगृहीतान्नकणभक्षका सन्तः, उग्राणि कष्टसाध्यानि दीर्घकालपरिसमाप्यानि फलापेक्षयाधिककष्टानि वा, तपांसि तपश्चरणानि, तप्ताः कृतवन्तः / हे विजिताश ! विशेषेण जिता आशा कृतकृत्यत्वेन समग्रप्रयोजनस्याभिलाषा येन स विजिताशः, अथवा-अशनमाशः, विजित आश आहारापेक्षारहितमुक्तिंगतया आहारक्रिया येन स विजिताशः, तत्सम्बोधने-हे विजिताश ! ज़िन !, त्वया पुनः भवता जिनेन पुनः, धर्मः तपोधर्मः, दग्धः-भस्मीकृतः-सर्वथा दूरीकृत इति यावत् / क दृशो धर्मः ? क्लेशचभूविनाशभक्तोऽपि क्लेशस्य परिश्रमस्य "क्लेशो दु:खे च रागादौ' इति वचनाद् , दुःखस्य रागादेर्वा, चमूशब्दसान्निध्यात् क्लेशरूपसेनाधिपतेरित्यर्थः, चमू:-या सेना कायिक-वाचिक-मानसिकभेदकलिता पीडा, तस्या विनाशे भक्तोऽपि विभक्तोऽपि यथायोगं नियमितः सम्यगुपवासादिरूपतपोधर्मोऽपीत्यर्थः, अपिशब्दात् तद्विपरीतो वायुमात्रभक्षादिरूपतपोधर्मोऽ. पीत्यर्थः / सम्यग्ज्ञानेन शुक्लध्यानाग्निना वा मुक्तिं गततया कृतकृत्यतया च द्विविधोऽपि तपोधर्मोऽपसारितः सर्वथेत्यर्थः, अन्यतैर्थिकैरुग्रतपांसि कृतानि, तथापि न जिताशा नवाशनक्रिया, हे वीर ! त्वया तु द्वयमपि जितमिति भावः // 30 // हे वीर ! तव स्तुति कर्तुं न कोऽपि विदग्धः, किन्तु तव स्तुतिरंशेनापि विहिता हितावहेति मत्वा मम तत्र प्रवृत्तिरित्याशयेनाह-- नानाशास्त्रप्रगममहतीं रूपिणीं तां नियच्छन् शक्रस्तावत् तव गुणकथाव्यापृतः खेदमेति /