________________ दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका। 161 हे वीर ! त्वं पुनरेतादृशानपि परवादिनः प्रति तत्तदुक्तार्थसंगमनपराण्येव वांसि कथितवानसीति अहो गुरुता तवेत्याह रागात्मनां कोपपराजितानां मानोन्नतिस्वीकृतमानसानाम् / तमोजलानां स्मृतिशोभिनां च प्रत्येकभद्रान् विनयानवोचः // 29 // रागात्मनामिति / रागः-कामः, आत्मा-स्वरूपं येषां ते रागात्मानस्तेषांरागात्मनां, स्वस्वाभिमतार्थविषयकात्यन्तरागशालिनामित्यर्थः; कोपपराजितानां कोपेन स्वानभिमतार्थकारिजनान् प्रति क्रोधेन, पराजिताः-स्वात्मस्वरूपतां तिरस्कृत्य तदेकतानतामुपगताः कोपपराजितास्तेषां, यत्किञ्चित् स्वानभिमतकारिपुरुषविषयकद्वेषवतामित्यर्थः, मानोन्नतिस्वीकृतमानसानां जाति-कुल-धनपाण्डित्यधर्मादिविषयको यो मानोऽभिमानोऽहमेव विशिष्ट जात्यादिमानित्याकारको गर्वस्तस्य या उन्नतिः-पराकाष्ठा, तया स्वीकृतमान्यतया परिगृहीतं मानसमन्तःकरणं येषां ते मानोन्नतिस्वीकृतमानसास्तेषाम् , अत्यन्तजात्याद्य भिमानवतामित्यर्थः / तमोजलानां ड-लयोरेक्यमिति तमसाऽज्ञानेन मोहेन वा जडाः-जडतामुपगता मोहजलास्तेषाम् अत्यन्तमूढानामित्यर्थः, स्मृतिशोभिनांच इदमित्थं कथं किमत्र प्रमाणमित्यत्र मत्कुलजा वृद्धा एवं कथितवन्तः स्मृतिकर्तारो मन्वादयः, एवं कथयन्तीत्येवंशीलाः स्मृतिशोभिनः, लोके अहो पाण्डित्यं स्मरणशक्तिरस्येत्येवंशोभामुपगताः स्मृतिशोभिनस्तेषां, न किमपि प्रत्यक्षादिकमनुभवं प्रमाणमुपदर्शयितुं प्रगल्भाः किन्तु स्मृतिमात्रमेव लोकानां विश्वासायोरीकृतवतामित्यर्थः, एतेषां सर्वेषां प्रत्येकभद्रान् प्रत्येक तत्तन्नयवादीनामेकैकेषाम् , भद्रं स्यात्पदलाञ्छितत्वेन परस्परसापेक्षतया कल्याणं यत्र तादृशान् , विनयान् स्यात्पदवाञ्छिततया विशिष्टान् नयान् , अवोचः कथितवान् असि, त्वमेव गुरुरिति लभ्यत इत्यर्थः। "नयास्तव स्यात्पदलाञ्छना इमे, रसोपविद्धा इव लोहधातवः / भवन्त्यभिप्रेतफलप्रदा यतस्ततो भवन्तमार्याः प्रणता हितैषिणः // 6 // " इत्यभियुक्तोक्तिः // 29 // 11