________________ 160 दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / यथेति / 'यथा परे लोकमुखप्रियाणि शास्त्राणि कृत्वाऽनुज्ञामलिनोपचारः शिष्यैर्लघुतामुपेताः, हे वीर ! त्वयि ते वक्तृत्वदोषाः न सन्ति" इत्यन्वयः / यथा येन भ्रम-प्रमाद-विप्रलिप्सादिदोषोत्थापित प्रकारेण, परे एकान्तवादिनः, लोकमुखप्रियाणि लोकानां-परीक्षादिगुणविधुराणां रथ्यापुरुषादिसाधारणजनानां मुखे-आदौ, प्रियाणि-मनोविनोदकराणि, अथवा मुखप्रियाणि-सुन्दराक्षरघटितत्वेन सम्यगुच्चारणानुकूल्येन वदनप्रियाणि, शब्दगुम्फनसौष्ठवगुणानि, न तु गम्भीराद्यर्थप्रकाशकानि, शास्त्राणि, कृत्वा निर्माय, अनुज्ञामलिनोपचारैः शास्त्रलक्षणकुत्सितहिंसादिकरणानुज्ञया मलिनानि उपचाराणि-आचरणकर्माणि येषां ते अनुज्ञामलिनोपचारास्तैः, शिष्यैः स्वकथितानुशरणकर्तृत्वेनान्तेवासिभिः, लघुतां लाघवमुपेताः-प्राप्ताः, हे वोर ! त्वयि जिने, ते वक्तृत्वदोषाः कुत्सितशास्त्रनिर्मितिजनकवक्तृगतदोषाः, न सन्ति न विद्यन्ते / / 27 // परेषां लघुत्वावश्यम्भावे हेतुमुपदर्शयति यथा भवांस्तेऽपि किलापवर्ग__मार्ग पुरस्कृत्य यथा प्रयाताः / स्वैरेव तु व्याकुलविप्रलापै रस्वादुनिष्ठेगमिता लघुत्वम् // 28 // यथेति / “यथा भवान् तथा तेऽपि अपवर्गमार्ग पुरस्कृत्य प्रयाताः किल, स्वैरेव तु व्याकुलविप्रलापैरस्वादुनिष्ठलघुत्वं गमिताः” इत्यन्वयः / हे वीर ! यथा भवान् जिनः, अपवर्गमार्ग पुरस्कृत्य प्रयातः, तथा तेऽपि परेऽप्येकान्तवादिनः, अपवर्गमार्ग अपवर्गस्य-मोक्षत्य, मार्ग-पन्थानं, पुरस्कृत्य आदृत्य, प्रयाताः प्रकर्षेण गताः, मोक्षमार्गमाश्रित्यैव तपः-स्वाध्यायादिकविषयकोपदेशादिकं कृतवन्त इत्यर्थः, किलेत्यैतिह्ये, वृद्धपरम्परात इत्थमवगम्यत इति, किन्तु स्वैरेव तु स्वसम्बन्धिभिरेव स्वनिर्मितैरेवेति यावत्, तु-पुनः, व्याकुलविप्रलापैः पूर्वापरविरुद्धकुयुक्तिवातोपेतयथार्थरहितपरस्परमतप्रतिक्षेपमात्रपरवचनैः, अस्वादुनिष्ठैः अप्रियतोपगतः, लघुत्वं लाघवं, गमिताः प्रापिता इत्यर्थः // 28 //