________________ दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / 159 कथम्भूतं सच्छासनमित्याकाङक्षायामाह-अपेतगुह्यावचनीयशाठयं गुह्यं चावचनीयं च शाठयं च-गुह्यावचनीयशाठ्यानि अपेतानि-निर्गतानि गुह्याऽवचनीयशार यानि यस्मात्-तदपेतगुह्यावचनीयशाठ्यम् , जिनागमे परो ज्ञात्वा न खण्डयेदित्यर्थं गोपनीयं-परज्ञानाविषयीभूतं किमपि नास्ति जिनाभिमतस्यार्थस्य कस्यापि खण्डयितुमशक्यत्वात् तद्गोपनं नास्ति, सर्वस्य तद्विहितस्यार्थस्यानिन्दनीयस्यैव सद्भावादवचनीयं- निन्दनीयं वस्तु प्रतिपादकतया न तत्र समस्ति, अन्यनिन्दापरायणार्थप्रतिपादकत्वलक्षणं यच्छब्दगतं शाठथं तदत्र न विद्यत इति गुह्य-गोपनीयं यदवचनीयं वक्तुमशक्यं शाटयं शठभावस्तद् भगवतो महावीरस्य नास्तीति भगवतोऽप्यपेतगुह्यावचनीयशाठ्यत्वमिति / पुनः कीदृशम् ? सत्त्वानुकम्पासकलप्रतिज्ञ सत्त्व-प्राणिनं प्रत्य नुकम्पा-दया-सत्त्वानुकम्पा तया सकला- सम्पूर्णा प्रतिज्ञा, पक्षे साध्यवत्त्वप्रतिपादकवचनं यत्र तत् सत्त्वानुकम्पासकलप्रतिज्ञम् अथवा सत्त्वम्-उत्पाद-व्यय-ध्रौव्ययुक्तत्व, तस्यानुकम्पा-एकस्मिन् वस्तुनि एकदैवावच्छेदकभेदेन तत्समर्थनं सत्त्वानुकम्पायां सकला प्रतिज्ञा यस्य तत् सत्त्वानुकम्पासकल. प्रतिज्ञमिति, भगवतोऽपि सत्त्वानुकम्पासकलप्रतिज्ञत्वं समस्ति, यतः पञ्चमहाव्रतधारणलक्षणा प्रतिज्ञा तस्य * सत्त्वानुकम्पार्थेव, पञ्चमहाव्रतमध्ये अहिंसाया एव प्राधान्यं, सत्यादीना-चतुर्णा तत्राङ्गत्वमेवेति / पुनः कीदृशम् ? शमाभिजातार्थ शमे-शमभावाविर्भावने अभिजातः-निपुणः, अर्थो यस्य तादृशम् , शमवानपि शमः शमगुणयुक्तः, अभिजात:-कुलीनो निपुणो वा अर्थः-अर्थ्यमाणोऽभिलष्यमाणश्च / पुनः कीदृशम् ? अनर्थघाति अनर्थविनाशकं भगवच्छासनं यथावदधीतं सदध्येतृणां सन्मार्गानुसरणप्रत्यलत्वेनानथं विनाशयत्येव. भगवांश्च भक्तानामनर्थं निवारयत्येवेत्यनर्थघातित्वं भगवतोऽपत्यर्थः // 26 // ___ जिन-तत्प्रणीतशासनयोर्गुणानुक्तवा वक्तरि जिनेऽन्यवादिगतदोषाणामभावं प्रतिपादयति यथा परे लोकमुखप्रियाणि शास्त्राणि कृत्वा लघुतामुपेताः / शिष्यैरनुज्ञामलिनोपचारै वक्तृत्वदोषास्त्वयि नैव सन्ति // 27 //