________________ 158 दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / नाथ ! त्वया देशितसत्पथस्थाः स्त्रीचेतसोऽप्याशु जयन्ति मोहम् / नैवान्यथा शीघ्रगतिर्यथा गां प्राची यियासुर्विपरीतयायी // 25 // . नाथेति / "हे नाथ ! त्वया देशितसत्पथस्थाः स्त्रीचेतसोऽपि मोहमाशु जयन्ति, अन्यथा नैव; यथा शीघ्रगतिः प्राची गां यियासुः विपरीतयायी, नैव प्राचीम्' गच्छतीति शेषः इत्यन्वयः / हे नाथ! हे स्वामिन् ! त्वया जिनेन्द्रेण महावीरेण, देशितसत्पथस्थाः देशित:-आगमलक्षणदेशनयोपदिष्टो यः, सत्पथः-सन्मार्गः, तत्रस्थाः भवदागमविहितक्रियाचरणकुशला इत्यर्थः, स्त्रीचेतसोऽपि अङ्गनान्तः-करणस्यापि अथवा पाणिगृहीतोचित्तस्यापि, मोहं स्वगतानुरागादिलक्षणम् , आशु शीघ्रम् ! जयन्ति स्वसम्बन्ध्यत्यन्तासक्तिलक्षणमूर्छा समूलकाषं कर्षित्वाऽत्यन्तकष्टसाध्यपरिपालनां जैनी दीक्षां गृह्णन्तीत्यर्थः, अन्यथा त्वदागमविहितमार्गावस्थानमन्तरेण, नैव स्त्रीचेतसो मोहं नैव जयन्ति, एतदर्थोपोद्वलनायाह-यथा शीघ्रगतिः शीघ्रगमनशीलः पुमान् , प्राची गाँ पूर्वी दिशं, यियासुः गन्तुमिच्छुः, विपरीतयायी पश्चिमदिक्सम्मुखगमनकर्ता, नैव प्राचीं गच्छति स्वाभीष्टप्राचीदिग्व्यवस्थितप्रामादिप्राप्तिमान् न भवतीत्यर्थः // 25 // अन्यागमतो वैशिष्टयं जैनागमस्य प्रकटयतिअपेतगुह्यावचनीयशाठयं सत्त्वानुकम्पासकलपतिज्ञम् / शमाभिजातार्थमनर्थयाति __ सच्छासनं ते त्वमिवाप्रधृष्यम् // 26 // अपेतगुह्यावचनीयशाठयमिति / “ते सच्छासनं त्वमिवाप्रधृष्यम्, अपेतगुयावचनीयशाठयं, सत्त्वानुकम्पासकलप्रतिज्ञं शमामिजानार्थमनर्थघाति" इत्यन्वयः। हे भगवन् ! ते तव, सच्छासनं समीचीनार्थप्रतिपादकागमः, त्वमिव त्वं यथाऽन्याप्रधृष्यस्तथा, अप्रधृप्रष्यम् अन्यैः प्रधर्षयितुं-बाधयितुमशक्यम्,