________________ दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / 157 ते वस्तुतः सर्वज्ञाः, किन्तु हे वीर ! तवैव तु भवत एव तु, यथार्थनामा यथार्थं नाम यस्याः सा यथार्थनामा, सर्वज्ञता सर्वं जानातीति सर्वज्ञस्तस्य भावः सर्वशता, सर्वविषयकज्ञानवत्ता; इदं एतत्कथनमस्माकं सत्यं यथार्थम्, रागः भवन्तं प्रति भक्तिवचन, न नैव, यथार्था भवतः सर्वज्ञतेति भक्तिमात्रख्यापकं नेदं वचनं, किन्तु सत्यमेवेत्यर्थः // 23 // कतिपयलोकप्रकाशककरनिकरशालिसूर्यादशेषवस्तुप्रकाशकाऽनावृतागमप्रणेतुभगवत उत्कर्ष स्तौति रविः पयोदोदररुद्धरश्मिः प्रबुद्धहासैरनुमीयते ज्ञैः / भवानुदारातिशयप्रवादः __प्रणेतृवीर्योंच्छिखरप्रयत्नैः // 24 // रविरिति / “पयोदोदररुद्धरश्मिः रविः प्रबुद्धहासैः ज्ञैरनुमीयते उदारातिशयप्रवादो भवान् प्रणेतृवीर्योच्छिखर प्रयत्नैः अनुमीयते' इत्यन्वयः। पयोदोदररुद्धरश्मिः पयोदो-जलदः, तस्योदरे- अन्तः, रुद्धाः, रश्मयः-किरणा यस्य स पयोदोदररुद्धरश्मिः, रविः सूर्यः, प्रबुद्धहासैः ज्ञात कमलादिविकासैः, जैः ज्ञातृभिः, अनुमीयते 'उदितः सूर्यः कमलादिविकासात्' इत्यनुमितिविषयो भवति, उदारातिशयप्रवादः सर्वान् प्रमातून प्रति अविशेषेणावबोधदानलक्षण उदारातिशयः, प्रवादः प्रकृष्टः सर्वोत्कृष्टः, वादः- अनेकान्तागमः, उदारातिशयः प्रवादो यस्य स उदारातिशयप्रवादः, भवान् वीरः, प्रणेतृवीयोच्छिखरप्रयत्नैः प्रणेतुः-अभिनवशास्त्ररचयितुः, वीर्य-सामर्थ्य, तदुच्छिखरः प्रयत्नो येषां ते प्रणेतृवीर्योच्छिखरप्रयत्नाः, प्रणेतृणामग्रगण्याः, तैः अनुमीयते 'वीरः सर्वज्ञ एतदृशागमप्रणेतृत्वान्यथानुपपत्तेः,' इत्यनुमितिविषय इत्यर्थः // 24 // - केवलज्ञानोत्पत्त्यनन्तरं भगवानागमं कृतवानिति ज्ञानातिशयं स्तुत्वा वचनातिवायं स्तोत्ति