________________ 156 दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / निरुक्तप्रतिज्ञया भगवता महावीरेण केवलज्ञानमाप्तं, तदेव सविशेषणमाहअनन्तं विनाशरहितम्, अथवा विषयाणामानन्त्यादनन्तविषयकत्वेनानन्तम्, एकं उपयोगस्वरूपत्वेनैकम् , युगपत् त्रिलोकीगतानां सर्वेषां विषयाणां समकालमेवावगाहित्वेन युगपत्, त्रिकालं अतीतानागत-वर्तमानलक्षणकालत्रयेऽप्य विशेषेण सर्वपदार्थग्राहित्वेन त्रिकालम्, शब्दादिभिः शब्दादिभिः पौद्गलिकैमूतैः निष्प्रतिघातवृनि निष्प्रतिघाता-प्रतिघातरहिता, वृत्तिः-वर्तनं यस्य तन्निष्प्रतिघातवृत्ति, क्वचिदपि न प्रतिहन्यत इति / दुरापं प्राप्तुमशक्यम्, अचिन्त्यभूति अचिन्त्या-चिन्तयितुमशक्या, भूतिः-विभूतिर्यस्य तदचिन्त्यभूति, जन्म जरान्तकर्तृ जन्म च जरा च जन्म-जरे, जन्म-जरयोरन्त करोतीति जन्मजरान्त. कर्तृ. यद्भावे पुनर्जन्म जरा च न भवतीति, ईदृशं ज्ञानं केवलज्ञानं, त्वया वीरजिनेन्द्रेण, आप्तं प्राप्तं, हे सर्वज्ञ ! सर्वविषयकज्ञानशालिन् ! तेन केवलज्ञानेन, सर्वान् लोकान् त्रिभुवनवय॑खिललोकान्, अभिभूय स्वगुणापकृष्टगुणवत्त्वलक्षणमभिभवं कृत्वा, लोकत्तमतां लोकानां मध्ये उत्कृष्टगुणवत्त्वलक्षणोत्तमतां, उपेतः प्राप्तः, असि भवसीत्यर्थः // 21-22 // भगवतः सर्वज्ञतामनन्यागामिनी स्तोतिअन्ये जगत्संकथिकाविदग्धाः सर्वज्ञवादान् प्रवदन्ति तीर्थ्याः / यथार्थनामा तु तवैव वीर ! सर्वज्ञता सत्यमिदं न रागः // 23 // अन्ये इति / “अन्ये जगत्संकथिका विदग्धाः तीर्थ्याः सर्वज्ञवादान् प्रवदन्ति, हे वीर ! तवैव तु यथार्थनामा सर्वज्ञता, इदं सत्यं, रागो न" इत्यन्वयः / अन्ये अनेकान्तवादिभिन्नाः, जगत्संकथिकाविदग्धाः जगतः संकथिकायांपामरसाधारणक्षुद्रकथानिकायां, विदग्धाः-पण्डिताः, तीयाः तीर्थान्तरीया एकान्त वादिनः, सर्वज्ञवादान् ‘बुद्धः सर्वज्ञः, कपिटः सर्वज्ञः, गौतमः सर्वज्ञः, जैमिनिः सर्वज्ञः, व्यासः सर्वज्ञः' इत्येवं सर्वज्ञवादान; तत्तच्छास्त्रानुरागात् , प्रवदन्ति न तु