________________ दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिशिका। 155 - ~ ~ उत्साहशौण्डीर्यविधानगुर्वी मूढा जगद्वयष्टिकरी प्रतिज्ञा / अनन्तमेकं युगपत्रिकालं शब्दादिभिनिष्प्रतिघातवृत्तिः // 21 // दुरापमाप्तं यदचिन्न्यभूति ज्ञानं त्वया जन्मजरान्तकर्तृ / तेनासि लोकानभिभूय सर्वान् सर्वज्ञ ! लोकोत्तमतामुपेतः // 22 // [युग्मम् ] उत्साहेति / परेषां जगद्वयष्टिकरी प्रतिज्ञा मूढा, यत उत्साहशौण्डीर्यविधानगुर्वीति प्रथमवाक्यार्थसंक्षेपः / प्रतिज्ञा 'इदं मयोत्तरकाले कर्तव्यम्' इत्यव्यवहितोत्तरकालीनकर्तव्यत्वप्रकारकशानानुकूलव्यापारः, का सा ? जगद्वयष्टिकरी समष्टिरूपस्य जगतः प्रत्येकश एकैककरणशीला "एकोऽहं बहु स्यामिति तेषामेकैकं करवाणि” इति परेषां श्रुतेः, सेयं प्रतिज्ञा, मूढा मोहोपगता, ईदृशकार्यकरणासामर्थ्यात् यतः-उत्साहशौण्डोर्यविधानगुर्वी उत्साह उद्यमः, शौण्डीय पराक्रमः, ताभ्यां विधानं कार्यकरणं तेन गुर्वी, कर्मवैचित्र्यनिबन्धनायां जगद्वयष्टौ केवलपुरुषप्रयत्नसाध्यत्वप्रतिज्ञायाः कर्तुरुत्साहादिमात्राभिव्यक्तिफलकत्वेन निष्प्रयोजनकर्तृपुरुषकल्पनगौरवग्रस्तत्वात् / / मूढास्थाने 'व्यूढा.' इति पाठस्वीकारे त्वयमर्थः-हे सर्वज्ञ ! त्वया प्रतिज्ञा न्यूढा, कीदृशी ? उत्साहशौण्डोर्यविधानगुर्वी, जगद्वयष्टिकरी च, प्रतिज्ञा सर्वसावद्यत्यागात्मरमणतानियमः, उत्साहः संयममार्गे उद्यमः, शौण्डीर्य सिंहवत्परा मस्तयोविधानेन गुर्वी गौरवशालिनी, जगद्वर्याष्टकरी संसारत आत्मसनः पृथग्भावजननशीला मुक्तिप्रापणशीलेति यावत् / व्यूढा विशेषेण कृतवहना नितरां . स्वीकृतेति यावत् /