________________ 154 दिवाकर कृता किरणावलीकलिता, पञ्चमी द्वात्रिशिका / नाग-गरुडानाम् , तथापि च चतुर्विधा देवा आगच्छन्ति, तत्र सुरासुरा नागगरुडाश्च पूर्ववैरं त्यजन्ति मैत्रीभावं च भजन्तीत्येव भगवतो महिमेति भावः / अथवा पद्यद्वयमपि भगवज्जन्मकालीनाभिषेकावसरमाश्रित्य व्याख्येयम् , भगवतो जन्माभिषेककरणाय सेन्द्राश्चतुर्विधा देवा उपस्थिता भगवन्तमादाय मेरुशिखरे गताश्च तत्र सौधर्मेन्द्रस्य शङ्का समुपपन्ना, यदुत-इयता कलशानां जलसम्भारं कथङ्कारं लघुदेहो भगवान् सहिष्यत इति तां शङ्कोमपाकर्तुं भगवता तदा वामपादाङ्गुष्ठाग्रनिपीडनेन मेरुः कम्रितः, ततो मही, ततो जलधिश्व चलितः तदानीन्तन मिदं वर्णनम् / यदुक्तं योगशास्त्रवृत्तौ 'अथ जन्माभिषेकाय कृत्वोत्सङ्गे जगत्प्रभुम् / मेरुमूनि सुधर्मेन्द्रः सिंहासनमशिश्रियत् // 7 // 1 // इयन्तं वारिसम्भारं कथं स्वामी सहिष्यते / इत्याशशङ्के शक्रेण भक्तिकोमलचेतसा // 8 // 2 // तदाशङ्कानिरासाय लीलया परमेश्वरः / मेरुशैलं वामपादाङ्गुष्टाग्रेण न्यपीडयत् // 9 // 3 // शिरांसि मेरोरनमन्नमस्कर्तुमिव प्रभुम् / तदन्तिकमिवाय तुमचलंश्च कुलाचलाः // 10 // 4 // अतुच्छमुच्छलन्ति स्म स्नात्रं कर्तुमिवार्णवाः / विवेपे सत्वरं तत्र नर्तनाभिमुखेव भूः // 11 // 5 // " इति / अस्मिन् पक्षे आनन्दनृत्तेन प्रचला अचलाः कुलाचलाः प्रचलोऽचलो मेरुर्वा यत्र तादृशी भूरित्यर्थः / 'त्रैलोक्यविघ्नेश्वरमोहशान्ता' इति तु केवलज्ञानाप्तावुत्तरत्र निमित्ततया योज्यम्, यद्यत्रैवास्याभिसम्बन्धोऽभिप्रेतस्तदा "मोहशान्तौ" इत्यस्य मोहस्य शान्तौ उद्रेकाभावे मोहप्रतनुतायामित्यर्थः, अत एव मोहनाशं, इत्यनुक्त्वा 'मोहश न्तौ' इत्युक्तिः / / 19-20 / / मोहोरशान्ति चापायागमातिशयावाप्तिः, सा च सकलसावधत्यागात्मरमणयो. प्रतिज्ञया भवति, भवति च ततः केवलज्ञानप्राप्तिरिति पययुगलेन ज्ञानातिशयं स्तोतुमाह