________________ दिवाकर कृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका। 153 संजातानि, तान्येवाह-आनन्दनृत्तप्रचलाचला यथा निदाघे धर्माभिभूतानां शयानानां जागरूकाणां वा नराणां सुरभिशीतलानिललहरीसङ्गे व्यक्तोऽव्यक्तो वाऽऽन्तरिकसुखानुभवलक्षण आनन्दो भवति, तथा विश्वबन्धूनां तीर्थङ्करदेवानां च्यवन-जन्म-दीक्षा-केवल-निर्वाणकलक्षणेषु पञ्चसु कल्याणकेषु किलेला-जलानलानिल-वनस्पतिस्वरूपैकेन्द्रियपर्यन्तानामखिलजीवसमूहानां सुखानुभवलक्षण आनन्दो भवतीति विदितं जिनागमवादिनाम्, तथा चानन्देन-निरुक्तस्वरूपेण, यद् नृत्तंनृत्तमिव नृत्तं देहस्फुरणं तेन प्रकर्षेण चलाचला चलनशीला, भूः-पृथिवी जातेत्यर्थः, अनेन पृथिवीकायजीवानामानन्दोदय आवेदितः / यद्यपि चात्रापायापगमातिशयवर्णनार्थं साक्षात् केवलज्ञानोत्पत्तिनं दर्शिता तथापि मोहोपशमाचिरभावित्वात् केवलोत्पत्तिमाश्रित्य वेदितव्यं, तस्या एव कल्याणकत्वाद्, मोहविलयस्तदानीमयस्त्येव, एवमुत्तरत्रापि ज्ञेयम् / प्रत्युद्धतोटेलजलः प्रत्युद्धतं सर्वतस्तदङ्गाणामतिवेगेनाविर्भावादत्यन्तौद्धत्यशालि, उद्वलं वेलामतिक्रान्तं प्रवर्ध. मानं जलं यत्र तादृशः, समुद्रः सागरो जात इत्यर्थः, अनेनापकायजीवानामानन्दोदय आवेदितः / स्पर्शसुखे स्वकीयशीतस्पर्शेन सुखप्रदाने, अभिजातः निपुणः, सौम्यः सुरभिशीतलत्वाद् मनोज्ञच, अनिलः वायुर्जातः, अनेन वायुकायजीवानामानन्दोदय आवेदितः / एषां शेषैकेन्द्रियोपलक्षणत्वात् तेजोवनस्पतिजीवानामपि ग्रहणम् / एतेषां स्थावराणां यद्यानन्दोदयस्तदान्येषामङ्गिनां किमुत वक्तव्यमिति कैमुतिकन्यायेनाखिलाङ्गभाजामानन्दोदय इति गम्यते / शुभाभिधानाः शोभनं शुभसूचकमभिधानं शब्दनं येषां तादृशाः जयजयशब्द प्रयुञ्जाना इत्यर्थः, मृगपक्षिणः मृगाः शृगालादयः पशवः, पक्षिणः काकोलूकदुर्गादयः पतत्त्रिणः, प्रोषितमत्सराणाम् दूरीकृतवैरभावानाम् , सुर-दैत्यनाग-गरुत्मतां सुराः-ज्योतिष्क-वैमानिका देवाः, दैत्याः-सुरप्रतिपक्षिणो भुवनपति-व्यन्तरदेवाः, नागाः- नागाकुमारजातीया देवाः, गरुत्मतः- गरुडकुमारजातीया देवाः, तेषां तथा सर्वावतारः सामस्त्येन युगपद् भगवत्समीपे आगमनम्, यद्यपि सर्वजातीया भुवनपति-व्यन्तर-ज्योतिष्क-वैमानिकलक्षणा देवा भगवत्समीपे सहागच्छन्ति तथापि भगवन्महिम्ना वैरस्वभावत्यागो मैत्रीस्वभावाविर्भावो भवतीति ज्ञापनाद् न तथोपादानं कृतमपि तु वैरभावकलितानां सुरासुराणां