________________ 152 दिवाकर कृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / / आनन्दनृत्तप्रचलाचला भूः प्रत्युद्धतोद्वेलजलः समुद्रः / सोम्योऽनिलः स्पर्शसुखेऽभिजातः शुभाभिधाना मृगपक्षिणश्च // 19 // सर्वावतारः सुरदैत्यनाग ___ गरुत्मतां प्रोषितमत्सराणाम् / बभूवुरन्यानि च तेऽद्भुतानि त्रैलोक्यविघ्नेश्वरमोहशान्तौ // 20 // [युग्मम् ] आनन्देति / हे वीर ! ते त्रैलोक्यविघ्नेश्वरमोहशान्तौ अन्यानि अद्भुः तानि बभूवुः-आनन्दनृत्तप्रचलाचला भूः प्रत्युद्धतोद्वेलजल: समुद्रः, स्पर्शसुखेऽभिजातः सौम्योऽनिलः शुभाभिधाना मृगपक्षिणश्च प्रोषितमत्सराणां सुर-दैत्यगरुस्मतां सर्वावतारः” इत्यन्वयः / हे प्रभो महावीर ! ते भवतो जिनस्य त्रैलोक्यविघ्नेश्वरमोहशान्तौ त्रयाणां लोकानां समाहारस्त्रिलोकी, त्रिलोकी एवं त्रैलोक्यं, तस्य- त्रिलोकीगतजीवानामित्यर्थः, यानि विघ्नानि विघ्नभूतानि कर्माणि, तेषामीश्वरे ईश्वरसदृशो यो मोहः-मोहजनकं मोहनीयं कर्म ईश्वरत्वं च मोहनीयकर्मणस्तन्नाशेऽपरकर्मणामवश्यं नाशात् तदेकयोगक्षेमतया, तस्य मोहनीयकर्मणः शान्तौ विरामे विलये सतीत्यर्थः, मोहनीयकर्मनाशे सति ज्ञानावरणीय-दर्शनावरणीयान्तरायाभिधानानां त्रयाणामपि कर्मणां किलान्तर्मुहूर्तमध्य एव भाशात् तन्नाशोऽप्युपलक्षणीयः तथा च यतः समयान्तरे केवलज्ञानमाविश्वकास्ति तादृशानां घातिसंज्ञकानां ज्ञानावरणीय-दर्शनावरणीय-मोहनीयान्तरायाभिधानानां चतुर्णा कर्मणां विलये सतीत्यर्थः, अनेनापि केवलज्ञानाविर्भावकालोऽप्युपलक्षणीयः, तस्य च कल्याणकत्वादभिधीयमानोऽर्थः सुसंगत इति निर्गलि. लार्थः / अन्यानि पूर्ववर्णनातिरिक्तानि, यद्वा अन्यानि-आश्चर्यान्तरतो विभिन्नानि असाधारणानीति यावत् , अद्भुतानि आश्चर्यजनकवर्णनानि, बभूवुः