________________ दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / 151 शिवेति / "हे जिन ! शिवाशिवव्याहृतनिष्ठुरायां रक्षःपिशाचोपवनान्तभूमौ समाधिगुप्तः समजागरूकः [त्वं] विनायकेभ्यः कायं समुत्सृज्य यत् संगमं वन्ध्याभिमानं ह्रोसंसर्गपात्रं [च कृतवानसि तेन नृत्तपुष्पैः प्रीतत्रिनेत्रार्चित्त ! लोक. वयवोरवीरोऽसि" इत्यन्वयः / हे जिन ! काम-क्रोधादिभावशत्रुजयशालिन् भगवन् ! शिवाशिवव्याहृतनिष्ठुरायां शिवानां शृगालानां यद् अशिवम् अकल्याणसूचकत्वादकल्याणं, व्याहृतं-शब्दकरणं तेन निष्ठुरायां-कठोरायाम् , अत्यन्तभीषणायामित्यर्थः, रक्षः पिशाचोपवनान्तभूमौ रक्षांपि पिशाचाश्च रक्षःपिशाचाः, तेषां निवासस्थानत्वेन सम्बन्धि यदुपवनं तदन्तभूमौ-तत्प्रान्तपृथिव्यां, समाधिगुप्तः चित्तवृत्तिनिरोधलक्षणसमाधिसुरक्षितः, समजागरूकः समेनसर्वत्र शत्रु-मित्रादौ समभावेन, जागरूकः-जागृतिमान्, त्वम् , विनायकेभ्यो विघ्नेभ्यः कायं शरीरं, समुत्सृज्य त्यक्त्वा कायोत्सर्ग कृत्वेति यावत्, विघ्नोपनिपातद्वारा कर्मणां विशेषक्षपणाय केनापि योगासनेन कायं स्थिरीकृत्य ध्यानमनो भूत्वेति भावः / / 14 / / यत् यस्मात्, संगम संगमाभिधमभव्यसुरं विघ्नकरणायोद्यतं, वन्ध्याभिमान वन्ध्यं निष्फलम्, अभिमानं-वीरं कायोत्सर्गादितो भ्रष्टमहं करिष्यामीत्याकारकं यस्य स वन्ध्याभिमानस्तं, ह्रीसंसगपात्रं ह्रिया-लज्जया सह संसर्गः- सम्बन्धो-ह्रोसंसर्गः तत्पात्रं तदाधारं, कृतवानसि अकरोः, तेन संगमाभिमानविध्वंसकत्वेन, नृत्तपुष्पैः नृत्त-तालमानयुक्त सविलासाङ्गविक्षेपरूपं नर्तन, पुष्पाणि-कुसुमानि तैः , प्रोतत्रिनेत्रार्चित ! प्रीता:-दुरात्मना संगमेन षण्मासीं यावत् सततोपनीते श्रवणमात्रहृदयकम्पिनि घोरोपसर्गेऽपि मनागप्यविचलितचित्तं ध्यानसागरनिमग्न भगवन्तं निरीक्ष्य संजातहर्षा ये, त्रिनेत्राः-त्रिभुवननायकाः सुरासुर-मनुजेश्वरा. स्तैः, अर्चितः-पूजितः, तत्संबोधने हे प्रीतत्रिनेत्रार्चित ! तेन संगमाभिमानविध्वंसकत्वेन, लोकत्रयवोर ! -लोकत्रये ये वीराः सन्ति तेभ्योऽपि वीरःपराक्रमशाली, असि वर्तसे, यद्वा हे लोकत्रयवीर ! वीरोऽसि परक्रमशाल्यसीत्यर्थः // 18 // - भगवतो महावीरस्यापायापगमातिशयं दर्शयितुं तस्य सर्वथा मोहापगमे जगति यदाश्चर्यं जातं तत् पद्यद्वयेनाह