________________ 150 दिवाकर कृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / अज्ञातचर्यामित्यादि / “हे वीर ! अज्ञातचर्यामनुवर्तमानस्त्वं दुर्जनाधृष्य वपुः, यद् आसीः, नानासनोच्चावचलक्षणाङ्कमूर्तेः, [ ते ], तद् अन्यद्भुतम्, मे ईहितं [च ]'' इत्यन्वयः / अज्ञातचर्याम् अमुकं देशं नगरं प्रामादिकं वा विचरिष्यामीति कमप्यज्ञापयित्वा नानाजनपदादिषु यद् विचरणं सा अज्ञातचर्या ताम्, अनुवर्तमानः अनुसरन् , कुर्वाण इत्यर्थः, त्वं भगवान् वीरः, दुर्जना. धृष्यवपुः दुर्जनैः-दुष्टजनैः, अघृष्यम्-अपराभवनीयं, क्रियमाणोपद्रवशतेनापि पराभवितुमशक्यमित्यर्थः, वपुः-शरीरं यस्य तादृशः, यद् आसीः यद् अभवः, नानासनोच्चावचलक्षणाङ्कमूर्तेः नानासनानां-योगाभ्यासाङ्गतया प्रसिद्धानां विविधासनानां, यानि उच्चावचानि उच्चनीचभेदभिन्नानि लक्षणानि तेषाम्, अङ्कमूर्तेः-चिह्नभूतदेहस्य, येन विविधानि आसनानि सेवितानि तादृशदेहवतो भवत इत्यर्थः, तद् दुर्जनाधृष्यवपुःस्वरूपेण भवनम्, अत्यद्भुतम्, अत्यन्ताश्चर्यजनकम् , भवति हि अज्ञातस्थले गमने दुर्जनकृतोपद्रवः, तत्राप्यासननिश्चलस्य तु सुतरां भवेत् एवं सत्यप्यधृष्यवपुस्त्वमासीस्तदतीवाश्चर्यजनकमिति भावः, यस्य प्रतीकाररहितस्य शरीरमपि पराभवितुं, न शक्यते तस्यात्मा तु कथङ्कार पराभवनीयः स्यादिति महदाश्चर्यमिति फलितार्थः, किं स्तुतिकारस्य तवेदमिष्टं नवेत्याहमे सिद्धसेनस्य, ईहितम् इष्टम् // 16 // अज्ञातचर्यामेव भगवत उपदर्शयति पद्याभ्याम्शिवाशिवव्याहृतनिष्ठुरायां __रक्षःपिशाचोपवनान्तभूमौ / समाधिगुप्तः समजागरूकः कायं समुत्सृज्य विनायकेभ्यः // 17 // वन्ध्याभिमानं कृतवानसि ही संसर्गपात्रं जिन ! संगमं यत् / प्रीतत्रिनेत्राचित ! नृत्तपुष्पै स्तेनासि लोकत्रयवीर ! वीरः // 18 // [युग्मम्]