________________ दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / 149 mmmmmmmmmmmm प्रतोच्छत इति / “क्षीराणवोपायरलब्धबुद्धेः, ते केशान् , प्रतीच्छतः, सुरपस्य, तदा प्रसादसायामतरम् अक्षणां सहस्रं यथार्थानिमिषमभूत्" इत्यन्वयः। क्षीरार्णवोपायनलब्धबुद्धेः क्षीरार्णवः-क्षीरसमुद्रः, तस्मै यद् उपायनम्उपहारः, तत्कृते लब्धाप्राप्ता, संजातेति यावत् , बुद्धिः विचारणा यस्य तादृशस्य, क्षीरसमुद्रायोपहाररूपेणैतान् केशान् समर्पयिष्यामीति मतिमतः, पुनः ते हे वीर ! तव, केशान् ‘पञ्चभिर्मुष्टिभिः सर्वात्मनाऽपनीयमानान् . शिरःश्मश्रुकेशान् , प्रतोच्छतः सादरं गृह्णतः, सुरपस्य सुरेन्द्रस्य, तदा लुच्यमानकेशग्रहणावसरे, प्रसादसायामतरम् आयामः-दैर्घ्यम् , आयामेन सह वर्तत इति सायाम, दीर्घमित्यर्थः, अतिशयेन सायामं सायामतरं प्रसादेन-प्रसन्नतया सायामतरं-प्रसादसायामतरम् , प्रसन्नतयाऽतिदीर्घमित्यर्थः, एवंविधं यद् अक्षणां सहस्रं सहस्रं सहस्रसंख्यामितानि नयनानि, यथार्थानिमिषम् निमिषः-स्वाभाविकं चक्षुःस्पन्दनं, तदभावः-अनिमिषः, यथार्थः-वास्तविकः, अनिमिषो यस्य तादृशम् , अभूत् जातम् / देवानां चक्षुःस्पन्दनं न भवतीत्यागमवचनम् , सुरेन्द्रस्य यत् सहजं चक्षुषोऽस्पन्दनं तत् लुच्यमानकेशग्रहणावसरे वास्तविकं जातम् , यतो भगवतः केशा आकुञ्चिताः श्यामलाः लक्ष्णाः सूक्ष्माश्च भवन्ति, तद्दिदृक्षारसेन, भूतलमनागतानेव सर्वान् केशान् गृह्णामीति जिघृक्षारसेन चैकाग्रतयो तानिन्द्रः पश्यति गृह्णाति च, अत्र निमेषो यदि स्यात् तदोक्तरसो न पूर्यतेति वास्तविकत्वमिति भावः // 15 // दीक्षाङ्गीकारानन्तरं भगवान् वीरोऽज्ञातचर्यया नानाजन पदादिषु विचरति, तत्र च योगिजनोपसेव्यविविधासनादिना ध्याननिमग्नो भवति, दुर्जनाश्च तं न पराभवितुं प्रभवन्तीति वर्णयितुमाह अज्ञातचर्यामनुवर्तमानो . यद् दुर्जनाधृष्यवपुस्त्वमासीः / * नानासनोच्चावचलक्षणाङ्क मूर्तेस्तदत्यद्भुतमीहितं मे // 16 //