________________ 148 दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / मानं दीक्षायात्रामहिमानम् , ईक्ष्य अवलोक्य, अत्र समासाभावात् ' तवाया यबादेशाभावे 'ईक्षित्वा' इति प्रयोगेण भवितव्यमित्यांभाति, अथापि वचन प्राच्यप्रयोगे समासाभावेऽपि यबादेशो दृश्यते, यदुक्तं पाणिनिनैव-"सन्ध्यावधू' गृह्य करेण भुङ्क्ते” इति यद्विस्मयः लोकानां यो विस्मयः-आश्चर्य समभवत् , नामेति ऐतिह्ये 'आप्तपरम्परागतमेतद् वृत्तम्' इत्येतदर्थकम् , सोऽयं विस्मयः स्वाक-भूलोकादिजनसमुच्चयावलोकनं नान्यत्र कुत्रापीत्यन्यविस्मयापेक्षयोत्कृष्टत्वात् परमार्थिको विस्मयः / यद्वा 'भवाभवाभ्युत्थिचेतसः' इत्यस्य 'यद्विस्मयः' इत्यने नान्वयः, तथा च भवः-संसारः अभवः-भवप्रतिपक्षः, मोक्ष इत्यर्थः, ताभ्याम् अभ्युत्थितं-विरक्तं तत्रौत्सुक्यरहितं चेतः-अन्तःकरणं यस्य तादृशस्य, "मोक्षे भवे च निःस्पृहो मुनिसत्तमः” इत्यभियुक्तोक्तिः, ते तव वीरस्य, यद्विस्मयः विस्मृतदीर्घवैर-मिथोऽनुरागरक्त-विभिन्नलोकवासिजनवृन्दबन्धुरमीदृशं दीक्षायात्रामहिमानं निरीक्ष्य योऽयं विस्मयः-आश्चर्यम् , सोऽय विस्मयः मोक्षे भवे च समचित्तस्याश्चर्यं न भवेत् , अथापि यदाश्चयं जातं तदेवाश्चयं कारणाभावेऽपि कार्यसद्भावात् , समचित्तस्यापि चित्तं चालयेदीदृशोऽयं दोक्षायात्रामहोत्सवमहिमेति तात्पर्य स्तुतिकारस्य / यद्वा द्विस्मयः स्मयःईषद् हास्यं गर्वो वा, विगतः स्मयः-विस्मयः स्मयाभावः, स्मयकारणसद्भावे. ऽपि भवतो वीरस्य न स्मयो जातः, सोऽय विस्मयः-योऽयं स्मयाभावः सोऽयं विस्मयः- आश्चर्यजनकः समचित्तत्वाद् ईषदपि हास्यं गर्वो वा न जात इति गूढाभिसन्धिः / / 14 // निरुक्तदीक्षायात्रयोद्यानं गतो भगवान् परिहृत्यालङ्कारादीन् पञ्चभिर्मुष्टिभिः केशोल्लुञ्चनं करोति, सुरेन्द्रश्च तान् लुञ्चितकेशान् गृहीत्वा क्षीरसमुद्रे निक्षिपतीति वर्णयितुमाह प्रतीच्छतस्ते सुरपस्य केशान् क्षीरार्णवोपायनलब्धबुद्धे / प्रसादसायामतरं तदाभू दक्ष्णां यथार्थानिमिषं सहस्रम् // 15 //