________________ 147 दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / विषयीकृतं, दीर्घवैरं-बहुकालीनं वैर-शत्रुत्वं यैस्ते विस्मृतदीर्घवैरास्तैः, विस्मृतदोघवैरैः परस्परम्-अन्योऽन्यं, प्रीतिः-स्नेहः- परस्परप्रीतिः, परस्परप्रीत्याविषक्तानि सम्बद्धानि नेत्राणि येषां ते परस्परप्रीतिविषक्तनेत्रास्तैः-परस्परप्रीतिविषक्तनेत्रैः, त्वद्यानधूःसद्यवहैः तव हे वीर ! भवदीयं भवदधिष्ठितं यद्यानं-शिबिका, तस्य धुरः-तदीयधुरायाः सद्यवहै:-शीघ्रवहनकरणशीलैः, सुरासुरैः सुराश्च-देवाश्च सुराश्च-दैत्याश्च-सुरासुरास्तैः सुरासुरैः, सन्दिग्धसूर्यप्रभं सन्दिग्धा-तेजोमयदेहभाजां सुरासुराणां देहप्रभायाः सर्वतः प्रसृतत्वेन पृथक्तयाऽनुपलभ्यमानत्वात् 'सूर्यप्रभा विद्यते न वा' इति सन्देहविषयीकृता, सूर्यप्रभा-रविप्रकाशो यत्र तादृशम् , अन्तरिक्षम् आकाशम्, बभासे प्रकाशते स्म // 13 // हे वोर ! एतादृशं भवदीयदीक्षायात्रामहोत्सवसम्मीलितजनवृन्दं निरीक्ष्य योऽयं विस्मयः सोऽयं विस्मय इत्याह संकीर्णदैत्यामरपौरवर्ग मत्यद्भुतं तन्महिमानमीक्ष्य / भवाभवाभ्युत्थितचेतसस्ते __ यद्विस्मयो नाम स विस्मयोऽयम् // 14 // संकीर्णदैत्यामरपौरवर्गमिति / हे वीर ! भवाभवाभ्युत्थितचेतसस्ते संकीर्णदैत्यामरपौरवर्गमत्यद्भुतं तन्महिमानमीक्ष्य यद्विस्मयो नाम सोऽयं विस्मयः" इत्यन्वयः / भवाभवाभ्युत्थितचेतसः भवः-जन्म, अभवः-तत्प्रतिपक्षभूतं मरणं, ताभ्याम् , अभ्युत्थितं-विमुखं, चेतः-अन्तःकरणं यस्य तादृशस्य, यद्वा भवः-संसारः, तस्य अभवः-अभवनममावः, तत्र अभ्युत्थितम्-उद्युक्तं चेतो यस्य ताहशस्य, ते तव वीरविभोः, अस्य 'तन्महिमानम्' इत्यनेनान्वयः, संकीर्णदैत्यामरपौरवर्ग देत्याश्च-असुराश्च, अमरा सुराश्च पौराश्च-पुरजनाश्चेतिदैत्यामरपौराः, तेषां वर्ग:-समूहः-संकीर्णदैत्यामरपौरवर्गः संकीर्णः-अन्योऽन्यात्यन्तसम्पृक्तया संकलितः, दैत्यामरपौरवर्गो यत्र तादृशम् , पुनः अत्यद्भुतं अत्यन्ताश्चर्यजनकम् , तन्महि