________________ 146 दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / पौराः तत्पुरनिवसिनो जनाः, अकृत्रिमस्नेहमयप्रदीर्घदीनेक्षणा कृत्रिमः-औपाधिकः, न कृत्रिमोऽकृत्रिमः-अनुपचरितः स्वाभाविक इति यावत्, अकृत्रिमश्चासौ स्नेहश्च-अकृत्रिमरनेहः, तन्मयं तद्वया'तं, प्रकृष्टं दीघ-प्रदीघ, दीनं -शकव्यकुलम् ईक्षण-अवलोकन-दोनेक्षणं, प्रदीर्घ च तद्दीनेक्षणं-प्रदीर्घदीने. क्षणम. अकृत्रिमरनेहमयं प्रदीर्घदीनेक्षणं येषां ते अकृत्रिमस्नेहमयप्रदीर्घदीनेक्षणाः, यद्वा अकृत्रिमस्नेहमये-वास्तविकानुगगसंकुले, प्रदीर्घ-अत्यन्तमायते, दीने शोकव्याकुलतया दीनताभाने, ईक्षणे-नयने येषां तादृशाः, च पुनः, साश्रुमुखाः अश्रु-नेत्रजलं बाम् , अश्रृणा सहित-साश्रु साश्रुमुखम्-आननं येषां ते साश्रुमुखः, भगवद्राज्यपरित्यागजन्यशोकप्रभवनेत्रजलप्लावित्रमुखः, हे संसारसात्म्यज्ञजनकबन्धो ! संसरणं चतुर्गतिभ्रमणं संसारः, तेन सात्म्यम्-ऐक्यं, तज्जानातीति संसारसात्म्यज्ञः, यः स्वात्मानं संसारेण सहाभिन्न जानाति, संसारनिमग्न इति यावत् , संसारसात्म्यज्ञश्चासौ जनश्च-संसारसात्म्यज्ञजनः, तस्य संसारसागरादुद्धारकत्वेन एकः-अद्वितीयः, बन्धुः-मित्रं, तत्संबोधने-हे संसारसात्म्यज्ञजनकबन्धो ! भगवन् ! महावीर !, ते तव, भावशुद्धं राग-द्वेषादिकलुषितानेकदुःखमयसंसारस्वरूपावलोकनेन ततोऽत्यन्तव्यावर्तमानत्वात् परमार्थतः शुद्धं रागद्वेषादिमलरहितं, मनः- अन्तःकरणं, न नैव, जगृहुः पूर्वोक्तविशेषणविशिष्टाबलाननबालपौरा आकृष्टवन्तः, एवं सत्यपि संसारादत्यन्तविरक्त एव भगवानित्यर्थः // 12 // भगवतः प्रव्रज्यार्थयात्रामाश्रित्य महिमानं स्तौतिसुरासुरैविस्मृतदीर्घवैरैः परस्परप्रीतिविषक्तने त्रैः / त्वद्यानधूःसद्यवहैर्बभासे संदिग्धसूर्यप्रभमन्तरिक्षम् // 13 // सुरासुरैरिति / “विस्मृतदीर्घवैरैः परस्परप्रीतिविषक्तनेत्रैः त्वद्यानधूःसद्यवहैः सुरासुरैः सन्दिग्धसूर्यप्रभमन्तरिक्षं बभासे” इत्यन्वयः / विस्मृतं-स्मरणा