________________ दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / 145 m पुनः, स्त्रीमुखानि कथम्भूतानि ! मुग्धोन्मुखाक्षाणि मुग्धानां-मोहप्रस्तानां जनानाम्, उन्मुखे-अवलोकनार्थ सम्मुखे उत्सुके, 'अक्ष' इति, अक्षिणीनयने येषु तानि, समान्तेऽटि, उपदिष्टवाक्यसन्दिग्धजल्पानि उपदिष्टवाक्यंमान्यजनोपदिष्टं यद्वाक्य-प्रव्रजन्तं भगवन्तं त्वयेदं वक्तव्यमित्येवमुपदेशविषयीभूतं वाक्यं, तस्य संदिग्धः अव्यक्तगद्गदाक्षरत्वेनास्पष्टतया अनेनेदमुक्तमिदं वोक्तमित्येवं सन्देहविषयीभूतः, जल्पः जल्पनमुच्चारणं येषु तान्युपदिष्टवाक्यसंदिग्धजल्पानि / झटिति व्रजतीनामबला जनानामुन्मुक्तबन्धा केशा अप्यन्यादृशा एव सजाता इत्याहपुरस्सराणि अग्रदेशावच्छिन्नगमनानि, पुनः मार्गाचरणक्रियाणि मार्गे-पथि, यदाचरणं-भूतलव्यवस्थितकचवरादिदूरीकरणलक्षणसंशोधनं, तदेव क्रिया-व्यापारो येषां तानि मार्गाचरणक्रियाणि, अबलाजनकेशानामतिदीर्घत्वाद् बन्धनरहितानां तेषां मस्तकादारभ्य पादपर्यन्तव्यापित्वेन मार्गभूभागसंस्पर्शित्वं युज्यत एव, अत एव प्रलम्बवस्त्रान्तविकर्षणानि मस्तकादारभ्य पादपर्यन्तं यावच्छीरावयवाच्छादकं कुलाङ्गनानां परिधानवस्त्रं भवतीति प्ररग्वं यद् वस्त्रं तस्यान्तेन विक. र्षणम्-उत्तरोत्तरदेशे सञ्चरणं येषां तानि-प्रलम्बवस्त्रान्तविकर्षणानि, बालानि तदानीमिदृशान्यबलाजनबालानि संञ्जातानीत्यर्थः / केशार्थे बालशब्दस्य पुंस्त्वेऽपि बाहुलकानपुंसकत्वम् / यद्वा बालशब्दस्य शिशावर्थे त्रिलिङ्गत्वात् पद्यमिदं शिशुपरतया व्याख्येयम्, तथा च तदानीं कीदृशाः शिशव इत्याह-मुग्धोन्मुखाक्षाणि मुग्धायां-सौन्दर्ययुक्तायां किंकर्तव्यतामूढायां वा स्वजनन्यादौ, उन्मुखे-साम्मुख्येन व्यापृते, अक्षोणि नयने येषां तादृशानि, पुनः उपदिष्टवाक्यसंदिग्धजल्पानि उपदिष्ट. वाक्य-प्रव्रजन्तं भगवन्तं निरोद्धं जनन्यादिना संदिष्टं ‘मा गाः' इत्यादिरूपं, तस्य संदिग्धः-शिशुतयोच्चार्यमाणत्वात् 'किमिदयुक्तमिदं वा' इति संदेहयुक्तः, जल्पः जल्पनमुच्चारणं येषां तादृशानि, पुनः पुरःसराणि स्वजनन्यादितोऽग्रगामीनि, पुनः मार्गाचरणक्रियाणि मार्गे-पथि, आ-ईषत् चरणक्रिया-पादकिया पादाभ्यां गमनं येषां तादृशानि, पुनः प्रलम्बवस्त्रान्तविकर्षणानि प्रलम्बस्य, प्रकर्षेण लम्बमानस्य, वस्त्रस्य-जनन्यादिपरिहितवस्त्रस्य, योऽन्तः-प्रान्तभागः, तस्य विकर्षणं-विशेषेण आकर्षण यैस्तादृशानि, बालानि शिशवः // 11 // 10