________________ 144 दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / तदानीं तत्रत्यानां स्त्रीणां पौराणां शोकप्रकोशकानेकप्रकारसद्भावेऽपि प्रव्रज्याग्रहणोन्मुखं भगवतश्चित्तं नांशतोऽप्यन्यथाभूतमिति त्रिभिः पद्यैरुपदर्शयति अपूर्वशोकोपनतक्लमानि नेत्रोदकक्लिन्नविशेषकाणि / विविक्तशोभान्यबलाननानि विलापदाक्षिण्यपरायणानि // 10 // मुग्धोन्मुखाक्षाण्युपदिष्टवाक्य संदिग्धजल्पानि पुरःसराणि / बालानि मार्गाचरणक्रियाणि प्रलम्बवस्त्रान्तविकर्षणानि // 11 // अकृत्रिमस्नेहमयप्रदीर्घ दीनेक्षणाः साश्रुमुखाश्च पौराः / संसारसात्म्यज्ञजनैकबन्धो ! न भावशुद्धं जगृहुर्मनस्ते // 12 // त्रिभिर्विशेषकम्] अपूर्वशोकोपनतक्लमानीति / सर्वाणि विशेषणानि 'अबलाननानि' इत्यस्य / अपूर्वशोकोपनतक्लमानि पूर्वं कदापीदृशो नाऽभूदित्यपूर्वः, अपूर्वचासौ शोकश्चापूर्वशोकः, 'अपूर्वशोकेनोपनतः-प्राप्तः, क्लमः परिश्रमो ग्लानिर्येषु तानि-अपूर्वशोकोपनतक्लमानि, अतिशयितरोदनकरणेन परिश्रम आननस्य युज्यत एव, नेत्रोदकक्लिन्नविशेषकाणि नेत्रस्योदकम् अतिरोदनोपजातं बाष्पं, तेन क्लिन्नम्-आद्रं, विशेषकं-मुखशोभाय ललाटे कृतं तिलकं येषु तानि नेत्रोदकक्लिन्नविशेषकाणि, विविक्तशोभानि विविक्ता-विगता शोभा सुन्दरता येभ्यस्तानि विविक्तशोभानि, विलापदाक्षिण्यपरायणानि विलापस्य-विलपनस्य यद् दाक्षिण्यं-पाडित्यं तत्परायणानि-तदेकताना नि, अबलानां स्त्रीणाम् , आननानि मुखानि इत्यर्थः // 10 //