________________ दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / 143 लोकानाम् , उपभोग्यैः उपभोक्तुं योग्यैः, निधिभिः प्रसिद्धैः, प्रजानां देशवासिजनानाम् , प्रीतिकरः आनन्दकन्दोल्लासकः आसीदित्यर्थः // 8 // भगवतो राज्यकार्यपरित्याग-प्रव्रज्याग्रहणपूर्वकालीनाऽवस्थोपस्थितेति वृत्तमुपादाय वर्णनमधिकरोति दिक्पालभुक्त्या वसुधां नियच्छन् प्रबोधितो नाम सुरैः समायः / लक्ष्म्या निसर्गोंचितसङ्गतायाः सितातपत्रप्रणयं व्यनौत्सीत् // 9 // दिकपालभूक्त्येति / "सुरैः समायः प्रबोधितो नाम दिपालभुक्त्या वसुधां नियच्छन् निसर्गोचितसङ्गताया लक्ष्म्याः सितातपत्रप्रणयं व्यनौत्सीत्" इत्यन्वयः / सुरैः लौकान्तिकदेवैः, समायः मायासहितः, मायाया उपलक्षणत्वात् सकषायः सम्पूर्णवीतरागभावमप्राप्तो भगवानिति भावः, अथवा राग-द्वेषाविषमस्यात्मस्वरूपस्य आयो लाभो यस्य तादृशः, प्रबोधितः भगवन् ! धर्मतीर्थ प्रवर्तयस्वेति स्वकर्तव्यसम्मुखीनतां नीतः, नामेत्यतिह्ये, इदं किल सम्प्रदायानुसारिवृद्धपरम्परागतं वृत्तमित्यधिगतये, दिकपालभुक्त्या पूर्वादिक्रमेणेन्द्रादीनां दशानां दिक्पालानां, भुक्त्या ‘भुंजप् पालनाभ्यवहारयोः” इति वचनात् वसुधां पृथ्वीं, नियच्छन् नियमयन् पूर्वदिग्व्यवस्थितभूभागपरिरक्षक इन्द्रः, पूर्वदक्षिणमध्यावस्थिताग्नेयकोणव्यवस्थितभूभागपरिरक्षकोऽग्निरित्यादिक्रमेण व्यवस्थां कुर्वन्, निसगोंचितसंगतायाः निसर्गेण-स्वभावेन, उचितसंगता-योग्यसङ्गतिमितानिसर्गोचितसङ्गता पितुरनन्तरं लक्ष्मीस्तत्पुत्रं स्वामित्वेन वृणोति तत् समुचितमिति तस्याः, लक्ष्म्याः राज्यलक्ष्म्याः, सितातपत्रप्रणयं श्वेतपत्रस्नेहं, राज्ञश्चिह्न श्वेतच्छत्रधारणमिति राज्ञा श्वेतच्छत्रधारणमवश्यमेव विधेयं, तस्यात्यन्तप्रियत्वादन्यस्मै दानं न समुचितम्, अत एव- "अदेयमासीत् त्रयमेव भूपतेः शशिप्रभं छत्रमुमे च चामरे / " इति कालदासेनोक्तम्, व्यनौत्सीत् त्यक्तवान् , अर्थाद् राज्यं परित्यतवानित्यर्थः // 9 //