________________ 142 दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / बहुभिः, नरेश्वरैः नरपतिभिः, चूडामणिव्यापृतपादरेणु: चूडामणिः-शिरोमुकुट तेन व्यापृतः-तत्सम्बन्धप्रयोज्यक्रियाविशेषतत्प्रभवपादविभागादिव्यापारवान् ,पादरेणुः-चरणलग्नधूलिकणा यस्य स चूडामणिव्यापृतपादरेणुः, एतादृशस्त्वमसि, यत्पादकमले राजानः स्वस्वहितेच्छवो लुठन्ति तस्य महावीरस्य माहात्म्यवर्णनमस्मदृशामशक्यमिति भावः / 'चूडामणिया॑पृत' इति पाठप्रामाण्ये तु 'असाध्यराग !' इत्यत्र असाधि अराग ! इति विश्लेषः, 'हे अराग ! नरेश्वरैः चूडामणिः व्यापृतपादरेणुः असाधि' इत्यन्वयः / हे अराग हे रागरहित ! भगवन् नरेश्वरैः नृपैः, चडामणिः निजनिजमुकुटः, व्यापृतपादरेणुः व्यापृता-व्यापारयुक्तासंलग्ना, पादरेणुः--भवदीयचरणधूलिकणा यत्र तादृशः, 'असाधि निष्पादितः, विहित इत्यर्थः // 7 // यस्य राज्यपरिपालनकाले कुबेरोऽपि भक्तयुद्रेकात् प्रजानां हितकर आसीत् तस्य कियान् महिमेत्याह --- स्वयं प्रभूतैनिधिभिनिवृत्तः प्रत्येकमम्भोनिचयप्रसूतैः। आशासनं सर्वजनोपभोग्य धनेश्वरः प्रीतिकरः प्रजानाम् // 8 // स्वयं प्रभूतैरिति। “धनेश्वरः आशासनं स्वयं प्रभूतैः, प्रत्येकं निवृत्तैः अम्भोनिचयप्रसूतैः सर्वजनोपभोग्यैः निधिभिः, प्रजानां प्रीतिकरः आसीत्' इत्यन्वयः। धनेश्वरः धनाधिपतिः कुबेरः, आशासनं यावद् भगवतो वीरस्य शासन-राज्यपरिपालनं तावत्कालं, स्वयं स्वगमेव, न तु भगवदादिप्रेरणया, प्रभूतैः बहुभिः, प्रत्येकम् एकैकशः, निवृत्तैः निशब्द आवृत्तावपि वर्तते, यथा-निवृत्तः सूर्यः, तथा च-आवृत्तिं गतैरित्यर्थः, अम्भोनिचयप्रसूतैः अम्भोनिचयः-समुद्रः, ततः प्रसूतैः-उत्पन्नः, अथवा वारिवाहवर्षणद्वारा स्खलितजलनिचयेन सह प्रसूतैः, जलवर्षणं निधिवर्षणसहितमित्यर्थः, जलवृष्टया सह वसुवृष्टिरपि कुबेरेण कृतेति भावः, सर्वजनोपभोग्यैः सर्वेषां जनानां-राज्यस्थित