________________ दिवाकर कृता किरणावलीकलिता पञ्चमी द्वात्रिशिका। 141 सः, स्मरः कामः, निहींकशरः निर्गता ही लज्जा यस्य स निह्रींकः, निहींकः शरः-बाणो यस्य स निहींकशरः, शरस्य जडत्वात् स्वभावत एव नास्ति लज्जा तादृशलज्जात्यन्ताभावेन लोके निर्लज्जत्वं न व्यवह्रियते, तथापि स्मरगतमेव निर्लज्जत्वं तच्छरे आरोप्यते स्वकार्याकरणात् एवंभूतोऽपि हे वीर ! ते तव, पुरः यत्-चचार भवदीयं यशोदापरिणयनमधिगम्य स्वप्रचारं प्राप्तवान्, तमर्थ अनेकजन्मान्तरेषु कामापाकरणेऽप्यस्मिन् जन्मनि कामप्रचारदानवृत्तम्, त्वमेव भवान् वीर एव, तमथं त्वमेव, विद्याः जानीहि, अन्यः त्वद्भिन्नः, कः ? न कोऽपि तमर्थ जानातीत्यर्थः, भोगावलिकर्मसद्भावावलोकनेन तथाविधासक्तिपरिहारेण कामप्रचारं दत्तवानिति गूढाभिसन्धिः // 6 // राजानः स्वयमेवागत्य त्वत्पादपीठे लुठन्तीत्यादिना माहात्म्यातिशयो वर्णयितुमशक्य इत्याह अबुद्धखेदोपनतैरनेकै रसाध्यरागाविषमोपचारैः। नरेश्वरैरात्महितानुरक्तै चूडामणिया॑पृतपादरेणुः // 7 // अबुद्धखेदोपनतैरिति / 'हे असाध्यराग ! अबुद्धखेदोपनतैरविषमोपचारैरात्महितानुरक्तैरनेकनरेश्वरै चूडामणिव्यापृतपादरेणुः, त्वमसीति शेषः' इत्यन्वयः / चूडामणिया॑पृतेत्यस्य स्थाने चूडामणिव्यापृतेति पाठो युक्तः, साध्यःसाधयितुं शक्यो रागो यस्य स साध्यरागः, साध्यरागो यो न भवति सोऽसाध्यरामः, तत्संबोन्धने हे असाध्यराग !, अबुद्धखेदोपनतैः न बुद्धः-अबुद्धः खेदः-आगमनादिपरिश्रमजन्यदुःखं यैस्ते अबुद्धखेदाः, अबुद्धखेदाश्च ते उपनताःस्वयमेव समीपमागताः-अबुद्धखेदोपनतास्तैः, अविषमोपचारैः विषमः-अन्योऽन्यं विसदृशः, उपचारः-अर्चास्तुत्यादिलक्षणो येषां ते विषमोपचाराः, न विषमोपचाराः-अविषमोपचाराः समोपचाराः-अहमिहमिकया समकालमेव सदृशार्चादिकरणप्रवक्ताः, तैः, आत्महितानुरक्तैः आत्मनो हितम्-अभीष्टम्-आत्महितम्, आत्महितेऽनुरक्ताः आत्महितानुरक्ताः-स्वरवाभीष्टसिद्धिकामुकाः, तैः अनेकैः