________________ 140 दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / यद्वा-"ज्ञानत्रयोन्मीलितसत्पथोऽपि यन्मानानुरोधेन पितुः चकर्ष, तां वसुधावधूम् , अमोहयत्, हे अच्युत ! तत्कारणं मन्तुं क ईशः” इत्यन्वयः / ज्ञानत्रयोन्मलितसत्पथोऽपि ज्ञानत्रयेण देवभवादेव सहायातेन मतिज्ञानश्रुतज्ञाना-ऽवधिज्ञानलक्षणेन ज्ञानत्रयेण उन्मीलित:-प्रकाशितः सत्पथः-मोक्षमार्गो यस्य एवंविधोऽपि भवान् वीरः, यन्मानानुरोधेन यस्याः-वसुधावध्वाः, मानस्य शासनप्रार्थनाजनितबहुमानस्य, अनुरोधेन-अनुसारेण, तादृशमानमाश्रित्येत्यर्थः,पितुः जनकस्य सिद्धार्थनृपस्य सकाशात् . चकर्ष आकर्षणेनेव तां प्रत्यागतां कृतवान् , तां यच्छन्दोद्दिष्टां, वसुधावळू वधूवदनुरूपां वसुधां-वसुधावासि जनताम् ,अमो. हयत् अरजयत् ; हे अच्युत स्वस्वभावादविचलितपरमात्मन् ! तत्कारणं ज्ञानत्रयप्रकाशितमोक्षमार्गत्वेऽपि वसुधाया यदाकर्षणं मोहनं च तन्निमित्तं, मन्तुं मननविषयीकर्तु, कः भवादृशातिरिक्तः को जनः, ईशः समर्थः, चारित्रावरणीयकर्मसद्भावावलोकनेन गृहवासितया वसुधाशासनमिति गूढाभिसन्धिः / अत एव भगवतो वीरस्य राज्याभिषेकविध्यपेक्षयेति प्रतीमः // 5 // हे वीर ! अनेकजन्मनि त्वयि ब्रह्मवतभग्नकरणासमर्थत्वाद् व्यपगनमानोऽपि कामस्त्वदने स्वोत्तेजकललनादिलक्षणशराकलितकरो व्यपगतलज्जश्चचार, सर्वज्ञत्वात् त्वमेव तमर्थं जानासीत्यनिर्वचनीयं भवतो माहात्म्यमिति स्तौति अनेकजन्मान्तरभग्नमान: स्मरो यशोदाप्रिय ! यत् पुरस्ते / चचार निहींकशरस्तमर्थ त्वमेव विद्याः सुनयज्ञ ! कोऽन्यः ? // 6 / / अनेकेति / हे यशोदाप्रिय ! सुनयज्ञ ! अनेकजन्मान्तरभनमानः स्मरो निहींकशरः सन् ते पुरो यच्चचार, तमर्थ त्वमेव विद्याः, अन्यः कः” इत्यन्वयः / हे यशोदाप्रिय ! यशोदायाः-यशोदाभिधानाया भार्यायाः, प्रिय !-परमस्नेहपात्र ! तथा सुनयज्ञ सुष्टुनयज्ञानशालिन् भगवन् !, अनेकजन्मान्तरभग्नमानः अनेकेषु जन्मान्तरेषु सम्यक् स्वशरव्यापारं प्रयुञ्जानोऽपि त्वयि सुदृढचारित्रशालिनि साफल्यमनासाद्य भग्नं-नष्टम् , अहं सर्वविजयीति मानमभिमानं यस्य