________________ दिवाकर कृता किरणावलीकलिता पञ्चमी द्वात्रिशिका / 139 उपमायाः-सादृश्यस्य अभिधानं-कथनं, स्यात् , यो येन समः स तेनोपमीयते, यथा मुखं चन्द्रेण सममिति मुख चन्द्रसदृशमित्येवमुपमीयते, अस्मिन् संसारे मया सह समानगुणः कश्चिद् भविष्यति तेन सह ममोपमाऽभिधानं भवतु-महावीर एतद्वदवभासत इति भगवता पृष्ट इव स्तुतिकार आह-ते तव जिनस्य, न्यूनोऽपि यज्जातीयगुणवान् जिनः तज्जातीय एव तदपेक्षया कतिपयांशेन न्यूनो यो गुणस्तद्वानपि, नास्ति न विद्यते, कुतः कस्मात्, समानः अन्यूनानतिरिक्तधर्मवान् तथा च केनापि गुणेन केनापि सममुपमानोपमेयभावेन स्तुतिर्भवतो न शकयते इत्यर्थः / / 4 / पित्रुपनीतां वसुधां गृहीत्वा परित्यक्तवतो महावीरस्य निर्ममत्वं समाश्रित्य स्तुतिं विदधाति अमोह ! यत्तां वसुधावधं य न्मानानुरोधेन पितुश्चकर्ष / ज्ञानत्रयोन्मीलितसत्पथोऽपि तत्कारण कोऽच्युत ! मन्तुमीशः ? // 5 // अमोहेति। "हे अमोह ! ज्ञानत्रयोन्मीलितसत्पथोऽपि पितुर्यन्मानानुरोधेन यत्ता वसुधावळू चकर्ष, हे अच्युत ! तत्कारण मन्तुं क ईशः' इन्यन्वयः / हे अमोह ! न विद्यते मोहः मूर्छा यस्य सोऽमोहः, तत्संबुद्धौ-हे अमोह ! मोहरहित ! शानत्रयोन्मीलितसत्पथोऽपि ज्ञानत्रयेण-मति-श्रुता-ऽवधिलक्षणज्ञानत्रयेण, उन्मीलितः- प्रकटितः, सत्पथः-सम्यगज्ञान दर्शन-चरित्रलक्षणसमीचीनमोक्षमार्गों यस्य स ज्ञानत्रयोन्मीलितसत्पथः, एवंभूतोऽपि सन् , पितुः जनकस्य सिद्धार्थनृपस्य, यन्मानानुरोधेन यादृशाज्ञापरिपालनादिमानरक्षणसाम्मुख्येन, यत्ताम् आयत्ताम्, अधीनामिति यावत् , वसुधावधं वसुधैव वधूः-स्त्री-वसुधावधूः, तां, चकर्ष आकृष्टवान् , हे अच्युत ! अविनाशिपरमात्मन् ! तत्कारणं तन्माननिमित्तं, मन्तु मननविषयोकर्तुम्, ईशः समर्थः, कः? न कोऽपीत्यर्थः, मोहरहितोऽपि पितुर्मानरक्षार्थ तत्प्रदत्तां भूमि कञ्चित् कालं गृहीत्वा परित्यज्य तां प्रव्रज्यां गृहीत. वानसीत्येवं व्यतिकरे मननसमर्थो न कोऽपीत्यर्थः // 5 //