________________ 138 दिवाकरकृता किरणावलीकलिता पञ्चमी द्वात्रिंशिका / भुवा विशाल धुतिमद् विवस्वता बलप्रकर्षः पवनेन वर्ण्यते // 3 // गम्भीरमम्भोनिधिनेति-गम्भीरमम्मभोनिधिना वर्ण्यत इत्येवं प्रत्येक 'वर्ण्यते' इत्यनेन सम्बन्धः, गम्भोरं गाम्भीर्यगुणवद् वस्तु, अम्भोनिधिना समुद्रेण, वर्ण्यते समुद्रो यथा गम्भीरस्तथाऽयं गम्भीर इत्येवं वर्ण्यते, अचलैः पर्वतैः, स्थितं स्थिरताशालिवस्तु वर्ण्यते- पर्वत्वत् स्थिरोऽयमिति, शरदिवा शरदाकाशेन निर्मलं नैर्मल्यवद् वस्तु वर्ण्यते-शरहतुगगनमिव निर्मलमिदमिति, इन्दुना चन्द्रेण, इष्टं सुन्दरं वस्तु वर्ण्यते, चन्द्रवन्मुखं सुन्दरमिति, यद्वा-इष्टम् अतिप्रियं वस्तु वर्ण्यते-चन्द्रमिव चकोरीति, भुवा पृथिव्या, विशालं महत्त्वदीर्घत्वादिशालि वस्तु वर्ण्यते -पृथिवीव विशालमिदमिति, विवस्वता सूर्येण, धतिमत् प्रकाशवद् वस्तु वर्ण्यते-रविरिव द्युतिमानयमिति, पवनेन वायुना, बलप्रकर्षः प्रकृष्टबलवत्वं वर्ण्यते-वायुरिव बलवानयमिति // 3 // इत्थं भगवति गुणवर्णनं संभवतीत्याह- . गुणोपमानं न तवात्र किञ्चि दमेयमाहात्म्य ! समजसं यत् / समेन हि स्यदुपमाभिधानं न्यूनोऽपि ते नास्ति कुतः समानः // 4 // [युग्मम् ] गुणोपमानमिति "हे अमेयमाहात्म्य ! तव अत्र गुणोपमान किञ्चित् समजसं न, यत् समेन हि उपमाऽभिधानं स्यात् ते न्यूनोऽपि नास्ति कुतः समानः' इत्यन्वयः / हे अमेयमाहात्म्य ! मातुं शक्यं-मेयं, न मेयम्-अमेयम् अमेयं माहात्म्यं यस्य सोऽमेयमाहात्म्यः, तत्सम्बोधने-हे अमेयमाहात्म्य ! अत्र अस्मिन् संसारे, तब भवतो महावीरस्य, गुणोपमानं-गुणानामुपमान-साधारणधर्मवत्तया सदृशं, किश्चित् किमपि, समअसं युक्त्युपपन्न, न नैव विद्यते, यत् यस्मात् कारणात्, समेन तुल्यगुणेन, हीति पादपूरणे, उपमाऽभिधानं