SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता पञ्चमो द्वात्रिंशिका / 137 सज्जनः, गतं गमनकर्मभूतं, मार्ग पन्थानं मोक्षसाधनं भगवतः स्तुतिकरणादिकम् , अनुप्रपत्स्ये अनुसरामीत्यर्थः / इदमुपजातिवृत्तं, तल्लक्षणं प्रागुक्तम् , एवमप्रेऽपि // 1 // मत्कर्तृका भवतः स्तुतियथा तथा भवतु, भवद्भक्त्याऽन्यानपेक्षोऽहं भवन्तं प्रति स्वदोषान् क्षयितुमवकाशमासादयाम्यवेत्याह जाने यथाऽस्मद्विधविप्रलापः क्षेपः स्तवो वेति विचारणीयम् / भक्त्या स्वतन्त्रस्तु तथापि विद्वन् ! क्षमावकाशानुपपादयिष्ये // 2 // जाने इति / “यथाऽस्मद्विधविप्रलापः क्षेपः स्तवो वेति विचारणीयम्, हे विद्वन् ! तथापि भक्तया स्वतन्त्रस्तु क्षमावकाशानुपपादयिष्ये इति जाने" इत्यन्वयः / यथा येन प्रकारेण, इयं मत्कर्तृका भवतः स्तुतिः, अस्मद्विघ. विप्रलापः अस्मद्विधानाम्-अस्मादृशानां विप्रलाप:-यद्वा तद्वा भाषणं, क्षेपः अनादरः, स्तवः गुणप्रकथनं वा भवेदिति, विचारणीयं सम्यक् पर्यालो वनीयम् , हे विद्वन् ! सर्वान्तर्यामिन् ! तथापि एवं सत्यपि, भक्त्या त्वयि भक्तिभरेण, स्वतन्त्रस्तु अन्याप्रेरित एव त्वां स्तोतुं प्रवृत्तोऽहं, पुनः क्षमावकाशान् यथायथोपवर्णनासामर्थ्य प्रयुक्तन्यूनोक्त्यधिकोक्त्यनवसरोक्त्यादिवक्तृ. दोषक्षमावकाशान्, उपपादयिष्ये उपपादनं करिष्ये, अयं दोष एवं भवता क्षन्तव्यः, प्रमादादन्यगतचित्तत्वादज्ञानाद् वाऽयमापतितो दोष इत्थं क्षन्तव्य इत्येवमर्थादेव समर्थयिष्ये; गुरूणां समीपे बालानां दोषसमष्टिस्तद्भक्तिप्रभावप्रीत्यैव विनिवर्तत इत्यतो यथातथेयं स्तुतिरनिवृत्तप्रसरेवेत्यभिसन्धिः / / 2 // भगवतो गुणानां वर्णनं न संभवतीत्युपदर्शयितुं यस्य यदुपमया वर्णनं सुसङ्गत तदुपदर्शयति.. गम्भीरमम्भोनिधिनाऽचलैः स्थितं भरदिवा निर्मलमिष्टमिन्दुना /
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy