________________ पञ्चमी द्वात्रिंशिका / यद् यत् तत्त्वमुशन्ति सूरिप्रवराः कुत्रापि शास्त्रे पर तत् सर्वं जिमदेशनापरिगतं निर्दुष्टमाभासते / / स्तोतव्योऽपि जिनस्तदन्तरगतः स्तोत्रं तथा नान्यथा शुद्धथै केवलमात्मवाचि यतना लावण्यसूरेरियम् // 1 // कृतकृत्यस्त्वं राग-द्वेषरहितत्वात् / स्तुतिभिराराधितो न भवसि, तथापि तव स्तुतिकरण सतां हितसाधनं, सद्भिराचरितं चेत्यहमपि त्वन्नामकीर्तनपवित्रयस्मस्तन्मार्गमनुसरामीति स्तुतिकार आह आराध्यसे त्वं न च नाम वीर ! स्तवैः सतां चैष हिताभ्युपायः / त्वन्नामसंकीर्तनपूतयत्नः सद्भिर्गतं मार्गमनुप्रपत्स्ये // 1 // [उपजातिः] आराध्यसे इति / "हे वीर ! स्तवैस्त्वं न च नाम आराध्यसे, एष च सतां हिताभ्युपायः, त्वन्नामसंकीर्तनपूतयत्नः सद्भिर्गतं मार्गमनुप्रपत्स्ये" इत्यन्वयः। हे वीर ! स्तवैः स्तुतिभिः, त्वं राग-द्वेषरहितो जिनः, न च नैव / नामेति कोमलामन्त्रणे, आराध्यसे आराधितो भवसि, कृतकृत्यस्य भवतः स्तवैरिष्टस्य कस्यचिदषाप्तेरनिष्टस्य कस्यचिन्निवृत्तेरभावेनाऽऽराधनाफलस्य प्रोत्यादेरभावात्, तर्हि मत्स्तुत्यर्थ प्रयत्नो निष्फलो न करणीयो भवद्भिरित्याक्षिप्त इव भगवता स्तुतिकार आह-एष च स्तुतिप्रयत्नश्च, सतां सज्जनानाम्, हिताभ्युपायः इष्टस्य साधनम् , अभ्यर्चनाद् भगवत इत्यादिना तत्त्वार्थे पूजादेः परम्परया मुक्तिसाधनत्वं प्रतिपादितम् , त्वन्नामसंकीर्तनपूतयत्नः तव वीरस्य, नामत्वन्नाम, त्वन्नाम्नः संकीर्तनं त्वन्नामसंकतनं, त्वन्नामसंकीर्तनेन पूतः-पवित्रो यत्नः-प्रयत्नो यस्य स त्वन्नामसंकीर्तनपूतयत्नः, इत्थंभूतोऽहं, सद्भिः