________________ दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिशिका। 135 एतावता वैतालीयच्छन्दसा भगवतः स्तवनं विधायाथोपजातिवृत्तेन तत्समाप्तिपद्यं निगमयतिस्तवमहमभिधातुमीश्वरः क इव यथा तव वक्तुमीश्वरः। त्वयि तु भवसहस्रदुर्लभे परिचय एव यथा तथास्तु नः // 32 // [उपजातिः] स्तवमहमिति / "वक्तुमीश्वरः क इव यथा तव स्तवमभिधातुमीश्वरोऽहम्, भवसहस्रदुर्लमे त्वयि तु यथा तथा नः परिचय एवास्तु" इत्यन्वयः / वक्तुं ज्ञातमर्थ सम्यगभिधातुम् , ईश्वरः समर्थः, क इव विशिष्य निर्देष्टुमशक्यः पुरुष इव, यथा येन प्रकारेण, हे वीर ! तव स्तवं स्तोत्रम् , ईश्वरः समर्थः, अहं सिद्धसेनदिवाकरः स्याम् , वक्ता कोऽपि पुरुषो भवत्स्तुतिकरणसमर्थो यदि स्यात् तदा तदुपमानेनाहमपि त्वत्स्तुतिकरण प्रत्यल इति सम्भाव्येत, न चैवम् , यदि त्वया मत्स्तुतिकरणमसंभावितमेव तर्हि किं प्रयोजनकोऽयमुद्यमस्तवेति भगवता पृष्ट इवाह-भवसहनदुर्लमे जन्मसहस्रेणाप्यवाप्तुमशक्ये, त्वयि जिने, तु पुनः, यथा तथा येन केनचित् प्रकारेण, नः अस्माकं, परिचय एव उत्तरोत्तरं त्वद्विषयकस्मृतिदाथि स्वरूपपरिज्ञानमेव, अस्तु भवत्वित्यर्थः / इह प्रथमतृतीयपादयोः “नौ रल्गा भद्रिका" इति भद्रिकालक्षणलक्षितत्वात् , द्वितीय-चतुर्थपादयोः 'जो ज्रौ मालती" इति मालतीलक्षणलक्षितत्वात् साङ्कर्यत उपजातिवृत्तमिति // 32 // धीव्यापारविशेषभव्यमननाऽनेकान्ततत्त्वोद्गता श्रीवीरस्तुतिभावमात्रतनुता श्रीसिद्धसेनोद्भवा / तुर्याऽमेयप्रमेयसारकलिता द्वात्रिंशिकेयं स्तुतिः व्याख्याता वितनोतु मोदममितं लावण्यबुद्धयांऽशतः / / 1 / / इति तपोगच्छाधिपति-शासनसम्राद-सर्वतन्त्रस्वतन्त्र-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्नेति पदाल कृतेन श्रीविजयलावण्यसूरिणा विरचिता किरणावलीनाम्नी - चतुर्थद्वात्रिंशिकाव्याख्या समाप्ता //