________________ 134 दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिशिका / जननं च यथा महद् भयं तदभावश्च यथोत्तमोऽभयम् / विमृशन्तु विनीतचक्षुपो यदि पश्यन्त्यनुपास्य ! ते वचः // 31 // जननं चेति / “यथा च जननं महद् भयं, यथा चोत्तमस्तदभावोऽभयं [तथा], हे अनुपास्य ! यदि ते वचः पश्यन्ति [तदा] विनीतचक्षुषो विमृशन्तु, यद्वा ते वचोऽनुपास्य यदि पश्यन्ति [तदा] विनीतचक्षुषो विमृशन्तु" इत्यन्वयः / यथा च येन प्रकारेण च, जननं जन्म, महद भयं संसाराविनाभावितया संसारस्य च नानाभयसंकुलत्वाद् महाभयकारणम् , यथा च येन प्रकारेण पुनः, उत्तमः मोक्षाविनाभावितया उत्कृष्टः, तदभावः जन्मा. भावः, अभयं सकलभयाभावकारणम् , 'उत्तमाभयम्' इति पाठे तु उत्तममोक्षसुखसहचारितया उत्कृष्टम् , अभयम्-सकलभयाभावः, परमं सकलभयाभावकारणमित्यर्थः, अयमाशयः-जन्मनि सति संसारः, संसारे च विविधदुःखोपनिपातः, स च महाभयकारणम् , एवं जन्माभावे सति मोक्षः. मोक्षे च सकलकर्माभावः, स च सकलभयाभावसम्पादको निरुपमसुखसम्पादक च / तथा तेन प्रकारेण, तत्स्वरूपेणेत्यर्थः / हे अनुपास्य ! न विद्यतेऽन्य उपास्यः सेव्यो यस्य तादृश ! हे वीरविभो ! यदि सम्भावयामि, यदुत-ते तव, वचः वचनं, पश्यन्ति श्रवणादिना साक्षात् कुर्वन्ति जीवास्तदा, विनीतचक्षुषः विशेषेण नीतं-सन्मार्ग प्रापितं, चक्षुर्येषां तादृशः सन्तः, विमृशन्तु पूर्वार्धोक्तं सुखेन विचारयन्तु, नान्यथेति भावः / पातनिकान्तरे-हे वीरविभो ! ते वचः अनुपास्य सम्यग् अनवधार्य, यदि पश्यन्ति पूर्वार्धोक्तं यदि जानन्ति केऽपि तदा ते विनीतचक्षुषः विनीतं-केवलित्वादनादृतं, चक्षुः-चक्षुर्व्यापारो यैस्तादृशा सन्तः, केवलिनः सन्तः, विमृशन्तु पूर्वार्धोक्तं सम्यग् जानन्तु, अयमाशयः-हे वीरविभो ! तव वचनावलम्बनेन केवलज्ञानेन वा जीवाः पूर्वार्धोक्तं सम्यग आनन्ति नान्यथा // 31 //