________________ दिवाकर कृता किरणावलीकलिता चतुर्थी द्वात्रिंशिका। 133 ज्ञानं, केवलज्ञानमिति यावत् , अर्जितं सङ्ग्रहीतमुत्पादितमिति यावत् , एवं सत्यपि हीनकलः पूर्वकलाव्यपगम जनितन्यूनकलः, न चासि न च भवसि, अधिकः पूर्वकलाधिककलः, नासि न भवसि, च पुनः, समतामपि पूर्वस्वभावावस्थानान्यूनानधिकस्वभावावस्थानलक्षणसमतामपि, अनिवृत्त्य निवृत्तिमकृत्वा, वर्तसे यथावस्थितात्मस्वरूपेणावतिष्ठस इत्यर्थः // 29 // अन्यत्र दोषतयाऽवभासमानोऽपि पदार्थो भगवति त्वयि गुणरूपत्वात् तत्कथनं स्तुतिरेवेत्याह सति चक्षुषि तत्प्रयोजन न करोषीत्यभिशप्यते पुमान् / भवतस्त्वलमेष संस्तवो __विदुषामन्यपथान्निवृत्तये // 30 // सति चक्षुषीति / 'पुमान् ‘चक्षुषि सति तत्प्रयोजन न करोषि' इत्यभिशप्यते, भवतस्तु विदुषामन्यपथान्निवृत्तये एषोऽलं संस्तवः” इत्यन्वयः / पुमान् यः कश्चित् पुरुषः, चक्षुषि सति नेत्रे विद्यमाने, तत्प्रयोजनं चक्षुषः प्रयोजनं चाक्षुषप्रत्यक्षं, चक्षुषाऽवलोक्य कार्यकरणादिकं वा, न करोषि न कुरुषे, चक्षुष्मान् त्वं चक्षुषा सम्यगवलोक्य प्रवृत्त्यादिकं किमिति न करोषि, एवं सति जन्मान्ध एव त्वं युक्तः स्यात् , इति एवं प्रकारेण, अभिशप्यते परकृताभिशापभाग् भवति, भवतस्तु हे वीर ! भवतः पुनः, विदुषां पण्डितानाम् , अन्यपथात् केवलज्ञानावलोकितमार्गव्यतिरिक्तमार्गात् , निवृत्तये चर्मचक्षुषा एकान्तवाद्यवलोकितमार्गतो विहिताचरण-निषिद्धानाचरणक्रियावैमुख्यसम्पत्तये, एषः सति चक्षुषि तत्प्रयोजनं न करोषीत्ययम् , अलम् अत्यर्थ, संस्तवः स्तुतिः // 30 // जन्मजन्माभावयोमहाभयत्वोत्तमाभयत्वे अपि वोरोपासनाजन्यसंस्कारसहितचक्षुष एव सम्यग् विमृशन्ति, तदुपासनामन्तरेण तयोर्दर्शनासम्भवादित्याह